________________
-
र
स्ववार्तायाम् , 'ग्रायः '-ग्रहीतुं योग्यः, 'ग्रहीतः'-ग्रहणं नीतः, तथा ' परिगृह्यमाणः '-ग्रहणं नीयमानः, 'गुडःकवला, भवति, ' तद्वत् '-उक्तप्रकारकगुडवत् कर्म, अपि क्रमेण · भोग्यं '-भुक्तं परिभुज्यमानं च भवति, ' चर्वितकव- 1 लवद् भुक्तं कर्म'-चय॑माणकवलवद् भुज्यमानं कर्म यश्चर्विष्यते तत्कवलवच्च भोग्यं कर्म भवतीतिभावः ॥ ५२-५३ ॥ मूलम्-संसारिजीवा तिनोव्रता वा, तेषां तु कर्मत्रयमेतदस्ति ।
वसुन्धराया घनबिन्दुवृन्दवत्, भुक्तं च भोग्यं परिभुज्यमानकम् ॥५४॥ कैवल्यभाजस्तु यके महान्तं-स्तेषां तु कर्माणि शिलाग्रवृष्टिवत् ।।
अल्पस्थितीन्येव तथापि तदशा-त्रयं तु तत्रापि गवेषणीयम् ॥५५॥ टीका-केषां किम्प्रकारकं कर्मेति दर्शयितुमाह-संसारिनीवा इत्यादि 'वतिन:'-व्रतयुक्ताः, 'वा'-अथवा, 'अवताअवतिन:-व्रतरहिताः, 'ये 'संसारिजीवाः'-सांसारिकजन्तवः, संति, ' तेषां'-पूर्वोक्तानाम् जीवानाम् , 'तु' शब्दश्चरण| पूत्तौं, 'एतत् '-पूर्वोक्तं भुक्तं भोग्यं च पुनः परिभुज्यमानकं उक्तार्थ, 'कर्मत्रयं '-त्रिप्रकारकं कर्म, 'वसुन्धरायाः
१. योगिनः। २. सा च भुक्तादिका या दशा अवस्था तशा तस्यास्त्रयं तदशात्रयं भोग्यभुक्तभुज्यमानकर्मलक्षणत्रयं । ३. केवलिसत्ककर्मसत्तायां । तत्र केवली हि केवलोत्पत्त्यनन्तरं स्वायुषोऽन्तसमयद्वयं यावत् प्रतिसमयं भुक्तभोग्यभुज्यमानकर्मा भवति, आयुषोऽन्तसमयादनन्तरपूर्वसमये भुक्तभुज्यमानकर्मा स्यात् , अन्तसमये तु भुक्तकर्मा न भुज्यमानकर्मा सर्वकर्मणामन्तसमये आयकरणात् सिद्धत्वप्राप्तेश्चात एवाग्रेऽनन्तरं वक्ष्यति सिद्धात्मनामिति ।