________________
ॐॐॐॐॐॐॐॐSAS
निपत्यमानं परिशुष्यमाणं, यावद्यदेतत्परिभुज्यमानवत् ।
ग्राह्यो गृहीतः परिगृह्यमाणो, यथा गुडो वा किल कर्म तद्वत् ॥५३॥ टीका-स्वरूपं ज्ञापयितुम् पूर्वक्रमेणाऽऽह-किंवदित्यादि ‘किंवदिति किमिव तत्कर्म भवतीतिभावः, अस्योत्तरमाहयथेत्यादिना ' यथा'-येन प्रकारेण, 'वसुंधरायां'-पृथिव्यां, पतितं'-पतनं प्राप्तं सत् , ' वारिदबिंदुव॒दं '-मेघबिंदुसमूहः, 'प्रशुष्कम् '-शोषं प्राप्तं भवति, 'तत् '-वारिदबिन्दुवृंद, 'मुक्तवत् '-भुक्तकमतुल्यमस्ति, भोग्यस्वरूपं ज्ञातुमाहतत्रेत्यादि 'च' शब्दश्चरणपूत्तौं, 'तत्र'-उक्तदृष्टान्ते, 'भोग्यवत् किमिति-भोग्यकर्मतुल्यं किमस्तीतिभावः, अस्योत्तरमाह' यावत् '-यथा, वसुन्धरायाम् , ' पतिष्यत् '-पतनं प्राप्स्यत्, 'वारिदबिंदुवृंदम् ' 'परिशोष्यमस्ति'-परिशोषणाहं भवति, तद्भोग्यवदस्ति, परिभुज्यमानस्वरूपं ज्ञापयितुमाह-निपत्यमानमित्यादि ' यावत् '-यथा, वसुन्धरायाम्, 'निपत्यमानम्'पतनं प्राप्यमाणं, ' यत्'-वारिदबिंदुव॒दं, 'परिशुष्यमाणं'-परिशोषणं नीयमानं भवति, 'एतत् '-इत्थं प्रकारकम् , वारिदबिंदुव॒दं 'परिभुज्यमानवत् '-परिभुज्यमानकर्मवत् भवति, पृथिव्यां पतितं प्रशुष्कं वारिदबिंदुवृंदमिव भुक्तं कर्मास्ति, पृथिव्यां पतिष्यत् परिशोण्यं वारिदबिंदुवृंदमिव भोग्यं कर्माऽस्ति, पृथिव्यां निपत्यमानं परिशुष्यमाणं वारिदबिंदुवृंदमिव च परिभुज्यमानं कर्माऽस्तीतिभावः, अत्रैव दृष्टान्तरमाह-ग्राह्य इत्यादिना 'वा'-अथवा, ' यथा'-येन प्रकारेण, 'किले 'ति
१. यथा मुखान्तर्गतः कवलः चर्वितः स भुक्तकर्मवत्, चळमाणकवलस्तु भुज्यमानकर्मवत् , यश्च चर्विष्यते कवल: स भोग्यकर्मवत्, इति कर्मणां कवलदृष्टान्तयोजनेति ।।
Stosos estosterostostogosted