________________
-
-
---
-
-
कर्मस्वरूपं ज्ञापयितुम् शक्त इतिभावः ॥५०॥ मूलम्-ईदृग्विधं कर्म कियद्विधं स्या-त्विधेति तत्कि शृणु भण्यमानम् ।
भुक्तं च भोग्यं परिभुज्यमानं, शुभाशुभं सर्वमिदं सक्षम् ॥५१॥ टीका-चतुर्भङ्गिकया भोक्तव्यं कर्म कतिविधमिति प्रश्नयति-वचनद्वारेण दर्शयितुमाह-ईग्विधमित्यादि 'ईदृग्विधम्'चतुर्भङ्गिकया भोक्तव्यं, 'कर्म कियद्विधं स्यात् ' इति कतिप्रकारमस्तीत्यर्थः, अस्योत्तरमाह-त्रिधेतीति पूर्वोक्तं कर्म त्रिप्रकारमस्तीतिभावः, प्रकारान् ज्ञातुमाह-तकिमिति ' तत्'-त्रिप्रकारकत्वं, किमस्तीतिभावः, अस्योत्तरमाह-शृण्वित्यादिना 'मया' भण्यमानं '-कथ्यमानं, 'शृणु'-आकर्णय त्वम् , ' इदं '-पूर्वोक्तम् , 'सर्व'-सकलं, 'शुभाशुभं'-शुभमशुभ
च कर्म, 'सदृक्षं '-समानत्वेन, ‘भुक्तं'-भोगमानीतं, ‘भोग्यं '-भोक्तुमर्हम्, 'च'-पुनः, 'परिभुज्यमानं '| भोग नीयमानं भवति, सर्वमपि शुभाशुभं कर्म भुक्त-भोग्य-परिभुज्यमानभेदैस्त्रिप्रकारकमस्तीतिभावः ॥५१॥
कर्मणो भुक्तभोक्ष्यमाणभुज्यमानामवस्थां नवभिः श्लोकैराहमूलम्-किंवद्यथा वारिदबिन्दुवृन्दं, वसुन्धरायां पतितं प्रशुष्कम् ।
तद्भुक्तवत्तत्र च भोग्यवर्तिक, यावत्पतिष्यत्परिशोष्यमस्ति ॥५२॥ १. यच्चतुर्भङ्गया भोक्तव्यं कर्म तत्कतिप्रकारं स्यादित्याह । २. सर्व शुभं वाऽशुभं वा कर्म विधा स्यात् भुक्तं भोग्यं भुज्यमानं चेति।
-
-