________________
GRIGIOSOS
RIGHISOLS
'अत्र'-अस्मिन् संसारे, 'प्रगे मे भविता'-प्रातःकाले मम भविष्यति, प्रातरिदं मम कार्ये समायास्यतीतिभावः, 'इति'एतद्, 'अवेत्य'-ज्ञात्वा, केनापि '-केनचिजनेन, 'च'-शब्दश्चरणपूत्तौं, 'किंचित् '-किमपि वस्तु, 'त्रातं'रक्षितम्, वस्तुरक्षणे हेतुमाह-द्रव्यादीत्यादिना 'द्रव्यादीनां'-द्रव्य-क्षेत्र-काल-भावानाम्, 'कालादीनाम् '-कालस्वभाव-नियति-पूर्वकृत-पुरुषकाराणां, 'तथाविधेन'-तादृशा, 'ओजसा'-शक्त्या, 'अत्यर्थम् '-अतिशयेन, 'तु' शब्दश्वरणपूत्तौं, 'तेन '-वस्तुरक्षित्रा जनेन, 'तत्र दिने'-तस्मिन्नहनि, यस्मिन्नहनि, तद् वस्तु रक्षितम् तस्मिन् दिन इति, 'तत् '-पूर्वोक्तम् वस्तु, 'न प्रभुक्तं '-न भोगमानीतम्, 'तत् '-तस्मात् कारणात्, 'ही 'ति निश्चये, 'तत् 'पूर्वोक्तम् वस्तु, 'अन्यदा'-अन्यस्मिन् काले, अन्यदिन इतिभावः, 'भोक्तव्यं '-भोगाहम् भवति, दान्तिविषयमाहएतादृगित्यादिना 'इदं '-पूर्वोक्तम् कर्म, अपि, 'एतादृक् तु'-एतादृशमेव, 'तु' शब्द एवकारार्थोऽस्ति ॥ ४७-४९ ॥
मूलम्-एवं चतुर्भङ्गिकया स्वकर्म, भोग्यं भवेदाप्तवाप्रमाणात् ।
कर्मस्वरूपं प्रतिवेदितुं नो, क्षमं विना केवलिनो यथार्थम् ॥५०॥ टीका-उक्तविषयमुपसंहर्तुमाह-एवमित्यादि 'एवम् '-अन्या रीत्या, 'आप्तवचः:प्रमाणात् '-यथार्थवक्तृवाच्यरूपप्रमाणेन, 'चतुर्भङ्गिकया'-चतुर्विधस्वरूपभेदेन, 'स्वकर्म'-आत्मकृतं कर्म, 'भोग्यं भवेत् '-भोगार्हम् भवति, किमित्याप्तवचः १ प्रमाणादेवेत्याह-कर्मस्वरूपमित्यादि केवलिनो विना'-केवलज्ञानिनोऽतरेण, 'यथार्थम् '-सत्यम्, कर्मस्वरूपम् '-कर्मलक्षणम्, 'प्रतिवेदिवं'-प्रज्ञापयितुं, 'नो क्षमम् '-न योग्यमस्ति, केवलिनोतिरिच्य नाऽन्यः कश्चित्
SARAGOSSA SEOSESSISHG6