________________
मूलम् - यथा यथा वा चरितं पुरात्मना, फलं ग्रहाणामिह भुज्यते तथा । यावत्स्वसीमां सहजाद्दशान्त-दर्शादियुक्तं परिणोदकं विना ॥ ३८ ॥ कर्माणि कर्मान्तरितानि चैवं यथात्मनानेन ननु क्रियन्ते । स्वकालमेषां परिपाकयुक्तं, भुङ्क्ते तथात्मा फलमीरकं विना ॥ ३९ ॥
टीका - अत्रैव श्लोकद्वयेन फलितमाह-यथेत्यादिना ' वे ' ति निश्रये, 'पुरा - पूर्वकाले, 'आत्मना '- जीवेन, ' यथा यथा चरितं ' - यादृशं यादृशं कर्म कृतं, ' तथा ' - तेनैव प्रकारेण, ' इह ' - अस्मिन् संसारे, 'स्वसीमां यावत् स्वमर्यादापर्यन्तम्, 'परिणोदकं विना ' - प्रेरकमंतरेणैव, 'सहजात् ' - स्वभावात्, 'ग्रहाणाम् ' -सूर्यादीनाम्, 'फलं भुज्यते'भोगं नीयते, कथंभूतं फलं ? ' दशान्तर्दर्शादियुक्तम् ' - मुख्यदशा चान्तर्दशादिभिर्युक्तम्, फलितमाह- कर्माणीत्यादिना ' एवम् ' - अनया रीत्या, 'च' शब्दश्वरणपूत, 'नन्वि 'ति निश्वये, ' अनेन ' - पूर्वोक्तेन, ' आत्मना '- जीवेन, ' यथा 'येन प्रकारेण याडशीतिभावः, ' कर्मान्तरितानि ' - अन्यकर्मभिर्व्यवहितानि कर्माणि स्वसमयानुकूलं, 'एषां ' - कृतकर्मणां, ' परिपाकयुक्तं ' - विपाकमिश्रितं फलं, ' आत्मा - जीवः, ' भुंक्ते - भोगं नयति ॥ ३८-३९ ॥
१. प्रेरकम् ।