________________
एवं ज्वराणां परिपाककालः, स्वकः स्वकोऽयं पृथगेष उक्तः ।
यथा तथैषां कृतकर्मणामपि पृथक् स्वकीयः स्थितिकाल एष्यः ॥ ३७ ॥
टीका - अत्रैव दृष्टान्तरमाह - ताप इत्यादिना ' यथा ' - येन प्रकारेण, 'पित्तभवः ' - पित्तादुत्पन्नः, पित्तप्रकोपाजात इतिभाव:, ' तापः ' - ज्वरः, 'दशाहं ' - दशवासरपर्यन्तं, ' तिष्ठति'- स्थितिं करोति, 'सश्लेष्मिक : ' - श्लेष्मणा - कफेन सहितः, श्लेष्मकोपाजात इतिभावः, ' द्वादशरात्रमात्रम् ' - केवलं द्वादशवासरपर्यन्तम् तिष्ठति, 'सवातिकः ' - वातेन सहितः, वातकोपाज्जात इतिभावः, 'सप्तरात्रम् ' - सप्तवासरपर्यन्तम् तिष्ठति, तथा ' त्रिदोपिकः ' -वात-पित्त-कफरूपत्रिदोपेण जातः सान्निपातक इतिभावः, पञ्चदशाहमानं - पंचदशवासरपर्यन्तम् तिष्ठति, फलितमाह - एवमित्यादिना ' एवम् 'अनया रीत्या, 'ज्वराणाम् ' - तापानाम्, ' एपः - पूर्वोक्तः, 'स्वकः स्वकः ' - स्वकीयः स्वकीयः, ' परिपाककाल: 'परिपचनसमयोऽस्ति, दान्ते घटनामाह-यथेत्यादिना ' यथा ' - येन प्रकारेण, ' अयम् - ज्वराणां परिपाकः, 'पृथगुक्तः ' - पृथक् पृथक् कथितोऽस्ति, ' तथा ' - तेनैव प्रकारेण, ' एपां'- पूर्वोक्तानाम्, ' कृतकर्मणामपि ' -विहितानां कर्मणामपि, ' स्वकीय: ' - आत्मीयः, ' स्थितिकाल : ' -स्थितिसमयः, 'पृथग् ' - विभिन्नः, ' एष्यः ' - वाञ्छनीयः, मन्तव्य इतिभावः ॥ ३६-३७ ॥
१. वाञ्छनीयः ।