________________
मूलम्-कर्मेदमाहुः कतिधा बुधाः सुधा-किरा गिरी त्वं शृणु दक्षिण ! क्षणम् ।
भगीचतुष्केन चतुर्विधं त-तत्राऽऽधमत्राऽचरितं त्विहोदयेत् ॥ ४० ॥
___कर्मण उदये आगमनभेदान् एकादशश्लोकैराहशस्तं तथाऽशस्तमहो यथा भुवि, सिद्धाय वा साधुजनाय भूभृते ।
श्रिया इह स्वल्पमपि प्रदत्तं, चौर्याचशस्तं पुनरत्र नाशकृत् ॥४१॥ टीका-इदानीम् कर्मभेदान् दर्शयितुमाह-कर्मेदमित्यादि 'बुधा'-विद्वांसः, 'सुधाकिरा'-अमृतस्राविण्या, 'गिरा'वाण्या, ' इदम् '-प्रसिद्धम् कर्म, 'कतिधा'-कतिप्रकारम् , 'आहुः कथयन्ति, अस्योत्तरमाह-त्वमित्यादिना 'हे दक्षिण !- हे चतुर !, त्वं 'क्षणं'-क्षणकालम् , 'शृणु'-आकर्णय, 'तत्'-कर्म, 'भङ्गीचतुष्केन'-भंगीनां चतुष्टयेन, चतुर्विधस्वरू| पभेदैरित्यर्थः, 'चतुर्विधं'-चतुःप्रकारमस्ति, तेषु प्रथम दर्शयितुमाह-तत्राऽऽद्यमित्यादि ' तत्र'-तेषु, 'आय'-प्रथम, | " शस्तं'-शुभम् , ' तथे' ति समुच्चये, 'अशस्तम्'-अशुभम् कर्म, 'अत्र'-अस्मिन् संसारे, 'आचरितम् '-कृतम्, 'तु'
१. अमृतस्राविण्या। २. वाण्या । ३. इदं कर्मसिद्धान्ते चतुर्घोकं । यथा इह लोए कडा कम्मा इह लोए वेजन्त, इह लोए कडा कम्मा परलोए वेजन्ते, परलोए कडा कम्मा इह लोए वेजन्ते, परलोए कडा कम्मा परलोए वेज्जन्ते इति चतुर्भङ्गी उका साऽत्र यथा संवाच्या । ४. कर्म। ५. कृतम्। ६. अत्रैवोदयं यायात् । ७. सिद्धपुरुषाय रससिद्धादिमहापुरुषाय । ८. राजे । ९ लक्ष्म्यै ।
SHRESHESESSISASRESSURES
१४