________________
RSSRRORE
एवं हि कर्माणि निजात्मगानि, स्वकं स्वकं कालमवाप्य सत्वरम् ।
विना परप्रेरणमेतमात्मकं, नयन्ति दुःखं सुखमप्यथो स्वयम् ॥ ३२ ॥ टीका-दृष्टान्तराण्याह-सिद्ध इत्यादिना यदा 'केनचित् ' केनाऽपि, ' अभ्यमितेन '-रोगिणा, 'सिद्धः'औषधैः पाकं नीतः, 'वा'-अथवा, ' असिद्धः'-अपक्वः, ' सर्वः'-सर्वप्रकारका, 'गृहीतः '-आत्तः, 'एषः'-प्रसिद्धा, 'रसो भवेत् '-पारदः स्यात् , तदा 'तत्परिणामकाले '-तद्विपाककाले-समये, 'समागते '-समुपस्थिते सति, 'तदाशक:'-पारदभक्षका, 'दुःखं '-क्लेशं, 'वा'-अथवा, 'सुखं '-सौख्यं, 'भजते '-प्राप्नोति, 'तथे 'ति समुच्चये, 'आत्मगाः'-शरीरे स्थिताः, 'दुःपिटिका: "-दुष्टा स्फोटिका निर्नामिकादीत्यर्थः, 'च'-पुनः, 'वालकः'-वालानामको रोगविशेषः, तथा 'दुर्वातशीताङ्गकसन्निपाता:'-दुष्टवात-शीतांगक-सन्निपातनामानो रोगा भवन्ति, 'अमी'दुःपिटिकादयो ये रोगाः, 'स्वयं तु'-स्वत एव, प्रेरकमंतरेणैवेतिभावा, 'तु' शब्द एवकारार्थः, 'कालबलं समेत्य'-समयशक्तिं प्राप्य, 'तद्वन्तम् '-आत्मानम् , दुःपिटिकादिरोगयुक्तं जीवम् , ' अतिव्यथन्ते '-अत्यन्तं पीडयन्ति, 'तथे 'ति समुच्चये, ' अमी'-प्रसिद्धाः, ' सर्वे '-सकलाः, 'ऋतवः'-हेमन्तादया, 'एते'-ऋतवः 'स्वं स्वं कालं समवाप्य'स्वं स्वं समयं प्राप्य, 'च' शब्दश्चरणपूतौं, ‘सद्यः'-शीघ्रमेव, ‘स्वभावतः '-स्वभावेनैव, प्रेरकमंतरेणैवेतिभावः, 'इमान्'-प्रसिद्धान्, 'मनुष्यलोकाङ्गभृतः'-मनुष्यलोकमध्यवर्तिप्राणिनः, 'सुख'-सौख्यं, 'तथे 'ति समुच्चये, 'दुःखं'क्लेश, 'नयन्ति'-प्रापयन्ति, दार्टान्ते घटनामाह-एवमित्यादिना ' एवम् '-अनया रीत्या, 'ही 'ति निश्चये, 'निजा