________________
पण्मासाभ्यन्तरे वर्षकालाभ्यन्तरे द्विवर्षाभ्यन्तरे तथा त्रिवर्षाभ्यंतरेऽपीतिभावः, ' नाशकृत् '-नाशकारि भवति, दार्टीन्तिकविषयमाह-इत्थमित्यादिना 'इत्थं च '-इत्थमेव, 'च' शब्द एवकारार्थः, 'इह-अस्मिन् संसारे, 'कर्माण्यपि भूरिभेदमिनस्थितीनि भवन्ति '-अनेकभेदैभिन्ना स्थिति]पां तानि तथा सन्ति तानि कर्माणि, 'निजे निजे काल उपागते तु-स्वस्वकाले समुपस्थित एव, 'तु' शब्द एवकारार्थ, 'कर्तुः 'कर्मणां कारकस्य, “स्वत:'-स्वयमेव, प्रेरकमंतरेणैवे. त्यर्थः, 'ताहक'-तथाप्रकारकम् , शुभाशुभं वेतिभावः 'फलं'-विपाक, 'वितन्वते '-कुर्वन्ति ॥ २७-२८॥
मूलम्-सिद्धो रैसो वैष भवेदसिद्धः, सर्वो गृहीतोऽभ्यमितेन केनचित्।।
समागते तत्परिणामकाले, दुःखं सुखं वा भजते तदाशकः ॥ २९ ॥ तथात्मगा दुःपिटिका च वालको, दुर्वातशीताङ्गकसन्निपाताः। स्वयं त्वमी कालबलं समेत्य, तद्वन्तमात्मानमतिव्यथन्ते ॥३०॥ अमी तथैते ऋतवोऽपि सर्वे, स्वं स्वं च कालं समवाप्य सबः।
मनुष्यलोकागभृतो नयन्ति, सुखं तथा दुःखमिमान स्वभावतः ॥३१॥ १. पक्वः। २. पारदः। ३. रोगितेन। ४. परिपाक। ५. सिद्धस्याऽसिद्धस्य वा पारदस्य भक्षकः। ६. दुष्टा स्फोटिका दुःपिटिका निर्नामिकायेत्यर्थः । ७. पीडयन्ति । ८ मनुष्यलोकमध्यवर्तिप्राणिनः प्रति ।
SOSAN FOS3648540686055016Ago