________________
समुपस्थिते सति, ' अयम् ' - आहारको जनः, ' सुखं ' - सौख्यं, ' तथे 'ति समुच्चये, 'दुःखं ' -क्लेशं, ' लभेत ' - प्राप्नोति, दन्ते घटनामाह- कर्माणीत्यादिना ' इत्थं ' - पुनरनेनैव प्रकारेण पुनः शब्द एवकारार्थः, कर्माण्यपि, ' गृह्णन् 'आददानः सन्, 'एषः ' - पूर्वोक्तः, 'आत्मा' जीवः, 'शुभाशुभानि ' - शुभान्यशुभानि च, ' न जानाति ' - न वेत्ति, 'तु परंतु, ' यदा' - यस्मिन् काले, ' तेपां ' - गृहीतानां कर्मणां, ' परिपाककाल: ' - परिणामसमयो भवति, ' तदा ' - तस्मिन् काले, आत्मा, ' स्वयं ' - स्वत एव, प्रेरक मंतरेणैवेतिभावः, 'सुखी ' - सुखयुक्तोऽथवा 'दुःखयुतः ' - दुःखी भवति ।। २५-२६ ॥ मूलम् - विषं तथा कृत्रिंममीदृशं स्या- तत्कालनाशाय तथैकमासात् । द्विमासषण्मासकवर्षकाल - द्विवर्षवर्षत्रयतोऽपि नाशकृत् इत्थं च कर्माण्यपि भूरिभेद - भिन्नस्थितीनीह भवन्ति केतुः । निजे निजे काल उपागते तु, तौहकू फलं तानि वितन्वते स्वतः
॥ २८ ॥
टीका - कर्मफलविषये सदृष्टान्तमाह - विषमित्यादि ' तथे 'ति समुच्चये, ' कृत्रिमं ' - परिकर्मितं, 'विषं - गरलं, ' ईदृश स्यात् ' - इत्थम् प्रकारं भवति, वक्ष्यमाणप्रकारं भवतीतिभावः, ' तत्कालनाशाय ' - तत्क्षण एवं विनाशाय भवति, तथे 'ति समुच्चये, 'एकमासात् ' - एकमासाभ्यन्तरे, 'द्विमासपण्मासवर्षकाल द्विवर्षवर्षत्रयोऽपी 'ति - द्विमासाभ्यन्तरे
11 20 11
१ परिकर्मितम् । २. कर्मणां कारणस्य । ३ यादृशं कर्म स्याद्यदि शुभं कर्म तदा शुभं फलं यद्यशुभं कर्माऽशुभं फलं कुर्वन्तीतिभावः ।