________________
UP
स्मगानि'-स्वात्मस्थितानि कर्माणि, 'स्वकं स्वकं कालमवाप्य'-स्वं स्वं समयं प्राप्य, 'सत्वरम् '-शीघ्रमेव, 'परप्रेरणं विना'-अन्यस्य प्रेरणमंतरेण, 'स्वयं'-स्वतः, अज्ञबोधनार्थत्वात् नात्र पुनरुक्तिदोषः, 'एतं'-प्रसिद्धम् , 'आत्म- || कम् '-आत्मानं, 'दुःखं '-क्लेशं, ' अथो अपि ' शब्दो समुच्चये, ' सुखं '-सौख्यं, 'नयन्ति'-पापयन्ति ॥ २९-३२ ॥ ॥II
मूलम्-तथा पुनः शीतलिकादिवाला-मयोद्भवा तप्तिरधिश्रयेत्तनुम् । ।
__ षण्मासमात्मानमिमं तथैव, श्रयन्ति कर्माणि समेत्य यत्स्वयम् ॥ ३३॥ टीका-परिपाककालविषये सदृष्टान्तमाह-तथा पुनरित्यादि ' तथा ' शब्दः 'पुनः' शब्दश्च समुच्चये, 'शीतलिकादिवालामयोद्भवा'-शीतलादयो ये वालामया-वालरोगास्तेभ्य उद्भवः-उत्पत्तिर्यस्याः सा, तथा 'तप्ति:'-उष्णता, 'पण्मासं'षण्मासपर्यन्तं, 'तनुं'-शरीरम् , ' अधिश्रयेत् '-आश्रयति, ' तथैव '-तेनैव प्रकारेण, 'यदि 'ति निश्चये, 'कर्माणि ' 'समेत्य '-प्राप्य, ' स्वयं '-स्वत एव, प्रेरकमंतरेणैवेतिभावः, 'इमं'-पूर्वोक्तमात्मानं जीवं, 'श्रयन्ति'-आश्रयन्ति ॥३३॥ मूलम्-यक्ष्माक्षिबिन्दूद्धतपक्षघाता, अर्धाङ्गशीताङ्गमुखामया ये।
सहस्रघनैः परिपाकमेषां, वदन्ति वैद्या विदितागमा विदा ॥ ३४ ॥ इत्थं हि केषामिह कर्मणां परी-पाकं स्वकालं समवाप्य यत्स्वयम् ।
विना परप्रेरणमत्र पण्डिताः, पठन्ति सैद्धान्तिकसिन्धुरा ये ॥ ३५ ॥ १. आदिशब्दात् बोदरिकाऽच्छपिटकादयः । २. क्षयरोग । ३. रोगाः । ४. शानेन ।
PG
-
-