________________
टीका-दृष्टान्तदा तिकघटनामाह-कर्मग्रह इत्यादिना ' कमंग्रहः '-कर्मादानं, 'स्वेप्सितभुक्तिवत्स्यात् '-स्वाभीष्टभोजनतुल्योऽस्ति, ' द्वयोस्तु'-द्वयोरेव, द्वयोः कर्मवातयोरेवेतिभावः, 'तु' शब्द एक्शब्दार्थः, 'शान्तिस्थितिकारी'प्रशमनस्थित्योः कारकः, ' अनेहा '-कालः, 'सम:'-समानोऽस्ति, 'तत् '-तस्मात् कारणात् , 'आत्मार्जितकर्मणां - जीवोपार्जितकर्मणाम् , ' ही ' ति-चरणपूर्ती, ' मुक्तिः '-भोगः, 'च'-पुनः, 'शान्तिः '-प्रशमनम् , ' किले 'ति निश्चये, 'कालद्रव्यैः'-कालस्वभावादिभिर्भवति ॥ २०॥ मूलम्-एवं तु कालो गदितोऽस्ति कर्मणो, वातादिवस्तुत्रितयस्य चाऽपि ।
परं यदा कश्चन शान्त्युपाया, उग्रो भवेत्तयपि याति चान्तरात् ॥ २१ ॥ किञ्चित्कदाचित्स्वदनं यदात्मनः, वातादिकृत्तत्क्षणतोऽपि जायते।
कर्माणि कानीह तथात्मनोऽस्यो-ग्राणि क्षणात्तत्फलदान्यनीरकम् ॥ २२ ॥ टीका-फलितमाह-एवं त्वित्यादिना 'एवम्'-अनया रीत्या, 'तु' 'वातादिवस्तुत्रितयस्य'-वातपित्तकफरूपपदार्थत्रयस्य, 'च' शब्द इवार्थः, ' कर्मणोऽपि 'कालः '-समयः, 'गदितोऽस्ति'-कथितो भवति, प्रमाणभूततया विनिश्चितोऽस्तीतिभावः, यथा वातादित्रयस्योत्पत्त्यादिषु कालः कारणं तथैव कर्मणोऽप्युत्पादिषु काल एव कारणमितिभावः, 'पर'
१. अर्थात् प्रमाणभूततया । २. वातपित्तश्लेष्मरूपवस्तुत्रयस्य । ३. सुखदुःखादिरूप । ४. नास्ति ईरकः प्रेरको यत्र फलादिदानकर्मणि तदनीरकम् तक्रियाविशेषणमेतत् ।
SARLSSSSSSS
।