________________
करम्भभोजी स्यात् '-मिष्टान्नादिकस्याऽम्लादिकस्य दधिशक्तूनां च भोजको भवेत् , ' तस्य'-पुरुषस्य, 'तद्योगसमुत्थवातः'शीतलवस्तुमृष्टादिकयोगोत्पन्ना, 'वर्षाऋतुं प्राप्य '-प्रावृपं लब्ध्वा, 'पुरु प्रकुप्यति'-भूरि प्रकोपं याति, अन हेतुमाहप्राय इत्यादिना यतः 'प्रायः'-बहुधा, ' वपुःस्थः '-शरीरे स्थिता, 'सः'-विवक्षितः, 'समीरः'-पवन:, 'उग्रःतीक्ष्णो भवति, मिथ्याहारविहारादिना शरीरस्थो वायुयॊपेषु प्रधानत्वात् सद्य एव कुप्यतीतिभावः, 'एप:'-शरीरस्थ: पवनश्च, 'शरदाख्यम् कालं'-शरनामकं कालं, शरद मितिभावः, 'लब्ध्या '-प्राप्य , 'प्रायेण '-बहुधा, 'पित्तमावात् '-पित्तस्योत्पत्तेः, 'संशाम्यति'-शमनं याति, फलितमाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'ही'ति चरणपूतौ निश्चये वा, 'अत्र'-अस्मिन् संसारे, 'वातादिकवस्तुनस्तु '-पवनादिद्रव्यस्येव, 'तु' शब्द इवार्थः, 'आत्माश्रितस्य'-आत्माधीनस्य , ' अस्य'-कर्मणः, 'उत्पत्तिस्थितिप्रान्तदशात्रयेऽपि '-उत्पादस्थितिनाशरूपासु विसृष्वपि दशासु, 'कालादिकं विना'-कालप्रभृतिकमंतरेण, कालस्वभावादिकं विनेतिभावा, 'एव' शब्दश्वरणपूर्ती, 'कश्चित् '-कोऽपि, 'अन्यः'-अपरः, 'हेतुः'-कारणं नास्ति, यथा वातादिवस्तूत्पत्तिस्थितिविनाशरूपदशात्रये कालादिकमतिरिच्याऽन्यः कश्चिद्धेतुर्नास्ति तथैवात्माश्रितस्य कर्मणः कालादिकं विना कश्चिदन्यो हेतुर्नास्तीतिभावः ॥ १७-१९ ॥ मूलम्-कर्मग्रहः स्वेप्सितभुक्तिवत्स्यात्, द्वयोस्तु शान्तिस्थितिकार्यनेहा ।
समस्तदात्मार्जितकर्मणां हि, भुक्तिश्च शान्तिः किल कालद्रव्यैः ॥२०॥ १. कर्मचातयोः । २. कालः ।