________________
टीका - दृष्टान्तदातिकघटनामाह - कर्मग्रह इत्यादिना ' कर्मग्रहः ' - कर्मादानं, ' स्वेप्सितभुक्तिवत्स्यात् ' - स्वाभीष्ट - भोजनतुल्योऽस्ति, ' द्वयोस्तु ' - द्वयोरेव, द्वयोः कर्मवातयोरेवेतिभावः, 'तु ' शब्द एवशब्दार्थः, ' शान्तिस्थितिकारी ' प्रशमनस्थित्योः कारकः, ' अनेहा ' - काल:, ' समः ' - समानोऽस्ति, ' तत् ' - तस्मात् कारणात्, ' आत्मार्जितकर्मणां जीवोपार्जितकर्मणाम्, ' ही ' ति-चरणपूत, ' भुक्तिः ' - भोग', 'च' - पुन:, ' शान्तिः ' - प्रशमनम् ' किले 'ति निश्चये, ' कालद्रव्यैः ' - कालस्वभावादिभिर्भवति ॥ २० ॥
मूलम् - एवं तु कालो गदितोऽस्ति कर्मणो, वांतादिवस्तुत्रितयस्य चाऽपि ।
परं यदा कश्चन शान्त्युपायः, उग्रो भवेत्तर्ह्यपि याति चान्तरात् ॥ २१ ॥ किञ्चित्कदाचित्स्वदनं यदात्मनः, वातादिकृत्तत्क्षणतोऽपि जायते ।
कर्माणि कानीह तथात्मनोऽस्यो -ग्राणि क्षणात्तत्फलदान्यनीरकम् ॥ २२ ॥ टीका - फलितमाह एवं त्वित्यादिना ' एवम् ' - अनया रीत्या, 'तु' 'वातादिवस्तुत्रितयस्य ' - वातपित्तकफरूपपदार्थत्रयस्य, ' च ' शब्द इवार्थः, ' कर्मणोऽपि ' ' काल : ' - समय:, ' गदितोऽस्ति - कथितो भवति, प्रमाणभूततया विनिश्चितोऽस्तीतिभावः, यथा वातादित्रयस्योत्पत्त्यादिषु कालः कारणं तथैव कर्मणोऽप्युत्पादिषु काल एव कारणमितिभावः, 'परं' -
१. अर्थात् प्रमाणभूततया । २. वातपित्तश्लेष्मरूपवस्तुत्रयस्य । ३ सुखदुःखादिरूप । ४. नास्ति ईरकः प्रेरको यत्र फलादिदानकर्मणि तदनीरकम् तत्क्रियाविशेषणमेतत् ।