________________
परन्तु, 'यदा'-यस्मिन् काले, 'कश्चन'-कोऽपि, 'उग्रः'-तीक्ष्णा, 'शान्त्युपायो भवेत् '-प्रशमनस्योपायः स्यात् , 'तर्हि '-तदा, 'च' शब्दश्वरणपूत्तौं, 'अन्तरादपि याति'-पूर्वमेवापगच्छति, अतो व्यतिरेकमाह-किञ्चिदित्यादिना पुनः 'यत्'-यथा, 'किञ्चित् '-किमपि, 'स्वदनं'-भोज्यं वस्तु, 'कदाचित् '-कस्मिंश्चित्समये, 'आत्मनः'-जीवस्य, 'तत्क्षणतोऽपि '-तत्क्षणादेव, 'अपि' शब्द एवशब्दार्थः, 'वातादिजायते'-वातादिदोषोत्पादकं भवति, 'तथा'-तेनैव प्रकारेण, 'इह '-अस्मिन् संसारे, 'उग्राणि '-तीक्ष्णानि, ' कानि'-कानिचित् कर्माणि, 'अस्य'-प्रसिद्धस्य, 'आत्मनः'-जीवस्य, ' अनीरकम् '-प्रेरकरहितम् , क्रियाविशेषणमेतत् , ' क्षणात्'-क्षणेन, सद्य एवेतिभावः, 'तत्फलदानि '-वफलप्रदानि, स्वफलरूपसुखदुःखादि प्रदायिनीतिभावो भवन्ति ।। २१-२२ ॥ मूलम्-यदा पुनः स्त्री पुरुषं भजन्ती, यहच्छया स्वार्थपरा विनेरकम् ।
विपाककाले परिपूर्णतां गते, प्रसूयमाना सुखिताथ दुःखिता ॥ २३ ॥ एवं तु कर्माण्यपि दुष्टशिष्टा-न्यनीरकाण्येव निजात्मगानि ।
स्वं कालमाप्य प्रकटीभवन्ति यदु, दुःखं सुखं वाभिनयन्ति देहिनम् ॥ २४ ॥ टीका-अत्र दृष्टान्तमाह-यदा पुनरित्यादिना 'पुनरि 'ति समुच्चये, 'यदा'-यस्मिन काले, 'स्वार्थपरा'-स्वप्रयोजने तत्परा सती, 'स्त्री'-अबला, 'ईरकं विना '-प्रेरकमंतरेण, 'यदृच्छया' स्वेच्छया, 'पुरुषं भजती'-नरं सेवमाना, पुरुषसंयोगं कुर्वन्तीतिभावो भवति, तर्हि सा 'विपाककाले '-परिणामसमये, 'परिपूर्णतां गते'-पूर्णत्वं प्राप्ते सति, 'प्रसूय
55