________________
' एतत् ' - पूर्वोक्तं वृत्तं, 'प्रेरकं विना '- प्रेरणकर्त्तारमंतरेण, 'कुतः ' - कस्मात् कारणात्, 'एष्यम् ' - वांछनीयमस्ति ॥ १३-१४ ॥ - मूलम् - सत्यं तु कर्माणि जडानि सन्ति, नाभोगकालं निजकं विदन्ति ।
आत्माऽपि दुःखानि न भोक्तुकाम- स्तथापि दुःखान्ययमाश्रयेत ॥ १५ ॥ द्रव्यादिसामय्यतथाऽनिवार्य - शक्त्यैव कर्माणि तु तादृशान्यपि । स्फुटानि भूत्वा स्वककर्तृकं बला- दात्मानमेनं ननु दुःखयन्ति ॥ १६ ॥
टीका - अस्योत्तरमाह - सत्यमित्यादिना यद्यपि ' सत्यमिति - एतत्तव कथनं सत्यमस्तीतिभावः, 'तु' --यत्, कर्माणि, ' ' जडानि सन्ति ' --अचेतनानि विद्यन्ते तानि, ' निजकम् ' - आत्मीयम्, ' आभोगकालं ' - भोगसमयं, ' न विदन्ति नैव जानन्ति, 'आत्मा'-- जीवोsपि, 'दुःखानि '--क्लेशान्, 'भोक्तुकामः -- भोक्तुमिच्छुः नास्ति, तथापि 'अयम्' -- आत्मा, ' दुःखानि आश्रयेत ' --क्लेशाश्रयणं करोति, अत्र हेतुमाह - द्रव्यादीत्यादिना द्रव्यादिसामग्र्य तथाऽनिवार्यशक्त्यैव ' - द्रव्या
?
१. द्रव्यमादौ येषां तानि द्रव्यादीनि द्रव्यक्षेत्रकालभावरूपाणि समग्रवस्तुत्पत्तिस्थितिनाशहेतुभूतानि तेषां सामग्र्यं सामग्रीसमवायस्तस्य तथेति तादृशी अनन्यरूपा सा चाऽसौ अनिवार्याऽप्रतिहता बलवती वा सा चाऽसौ शक्तिश्च तथा प्रेरकभूतया तादृशान्यपि जडान्यजीवानि च कर्माणि द्रव्यादिसामग्र्यां सत्यां प्रकटीभूय स्वेषामात्मीयानां कारकं कर्त्तारं वलादेनमात्मानं दुःखद्वेषिणमपि दुखयन्ति दुःखिनं कुर्वन्ति, अत एव कर्त्रादिप्रेरकं विनैव द्रव्यक्षेत्रकालभावसामध्या प्रेरकभूतया जडान्यपि कर्माणि कञ्चित् कालमात्मनि स्थित्वापि तत प्रकटीभूयाऽऽत्मानं दुःखयंति सुखयंति वा न तु कर्त्रादिप्रेरकप्रेरितानि इतिभावः ॥