________________
-
-
कर्माणि, ‘स्वकालसीमानमवाप्य '–स्वकालमर्यादां प्राप्य, 'एपां'-जीवानाम्, 'सुखदुःखदानि'-सौख्यक्लेशप्रदायकानि भवन्ति ॥ १२ ॥ मूलम्-चेदित्थमेवेति तदायमात्मा, गृह्णाति कर्माणि शुभाशुभानि ।
आत्माऽपि दुःखानि न भोक्तुकामः, यदेप दुष्कर्म पुरस्करोति ॥ १३ ॥ तदीह कर्माणि कियन्तमुच्चै-विलम्ब्य कालं निजकारमात्मकम् ।
सुखं तथा दुःखमिमं नयन्ति, कुतो विना प्रेरकमेतदेष्यम् ॥१४॥ टीका-अत्र वादी शंकते-चेदित्थमित्यादिना ' इति '-पूर्वोक्तं, 'चेत् '-यदि, 'इत्थमेव '-एतादृशमेव,-भवत्कथनानुरूपमेवेतिभावोऽस्ति, 'तदा'-तर्हि, 'अयं'-पूर्वोक्तः, 'आत्मा'-जीवः, ‘शुभाशुभानि'-शुभान्यशुभानि च कर्माणि, 'गृह्णाति '-आदत्ते, परन्तु 'आत्माऽपि '-जीवस्तु, 'अपि' शब्दस्तु शब्दार्थः, 'दुःखानि '-क्लेशान्, 'भोक्तुकामः'-भोक्तुमिच्छा, नास्ति, 'यत् '-यस्मात् कारणात् , ' एपः '-आत्मा, ' दुष्कर्म पुरस्करोति'-निकृष्टानि कर्माणि अग्रीकरोति, 'तत्'-तसात् कारणात् , 'इह '-अस्मिन् संसारे, 'तदीहे 'ति चिन्त्यम् पदम्, 'कर्माणि '-कर्तृपदम् , 'कियन्तम्'-किंचित्परिमाणकम् , ' उच्चैः कालं विलंब्य'-दीर्घकालपर्यन्तम् विलम्ब कृत्वा, 'निजकारम् '-स्वस्य कर्तारम् , 'इमं '-पूर्वोक्तं, 'आत्मकं '-आत्मानं, 'सुखं '-सौख्यम् , 'तथे 'ति समुच्चये, ' दुःखं'-क्लेशं, 'नयन्ति'-प्रापयन्ति,
१. वाञ्छनीयं ।