________________
मूलम् - ततः सचेतः प्रणिचेत चेतसा, जीवेभ्य एते सबला अजीवाः ।
यतो यथाऽजीवर्बलप्रणोदिता, जीवास्तथा स्युः सुखदुःखभाजः ॥ ११ ॥
टीका - फलितमाह-' ततः ' - तस्मात् कारणात्, 'सचेत' - चेतसा सह यथा स्यात्तथा सावधानमितिभावः, 'चेतसा 'मानसेन, ' प्रणिचेत ' -संजानीहि यत् ' एते ' - पूर्वोक्ताः, 'अजीवा' ' -जीवरहिताः, धर्मास्तिकायादय इतिभावः, 'जीवेभ्यः ' जीवापेक्षया, ' सबला ' - बलाः, बलवन्तः सन्ति, अत्र हेतुमाह-यत इत्यादिना ' यतः ' - यस्मात् कारणात्, ' अजीवबलप्रणोदिता: ' - अजीवा धर्मास्तिकायादयस्तेषां बलेन प्रणोदिताः - प्रेरिताः सन्तः, 'जीवाः' - आत्मानः, ' यथा ' - यत्प्रकारका भवन्ति ' तथा ' - तेनैव प्रकारेण, ते ' सुखदुःखभाजः स्युः ' - सुखदुःखयुक्ता भवन्ति ॥ ११ ॥ द्रव्यक्षेत्रकालभावाऽनिवार्यशक्तिप्रेरणया जडस्वरूपस्याऽपि कर्मणः प्राकट्य मेकोनत्रिंशत् श्लोकैराह
८
मूलम् - स्वभाव एषोऽस्ति यतस्तु जीवाः, गृह्णन्ति कर्माणि शुभाशुभानि ।
स्वकालसीमानमवाप्य कर्माण्यमूनि चैषां सुखदुःखदानि ॥ १२ ॥
टीका - अत्र हेतुमाह-स्वभाव इत्यादिना ' यतः ' - यस्मात् कारणात् ' एषः - पूर्वोक्तः, 'स्वभावस्त्वस्ति' - स्वभाव एव विद्यते, 'तु' शब्द एवकारार्थः, यत् ' जीवाः ' - आत्मानः, 'शुभाशुभानि ' - शुभान्यशुभानि च
१ अजीवा धर्माधर्माकाशपुद्गल कालस्वभावनियतिपूर्वकृत्पुरुषकारद्रव्यक्षेत्र कालभावलक्षणास्तेषां यद् बलं तेन प्रेरिता व्यापारिताः सन्तो जीवाः सुखदुःखभाजो भवन्ति । पुद्गलेष्वव कर्माण्यन्तर्भविष्यन्तीतिभावः ।