________________
टीका --- कर्मणः शक्तिं दर्शयितुमाह - षड्द्रव्येत्यादि 'खल्वि 'ति निश्चये, 'पद्रव्यमध्ये ' - धर्माधर्माकाशपुद्गलजीवास्तिकायलक्षणानां षण्णाम् द्रव्याणाम् मध्ये, 'द्रव्यपश्ञ्चकं ' - पञ्च द्रव्याणि, जीवास्तिकायं विहाय शेपाणि पञ्चद्रव्याणीत्यर्थः, 'एव' मिति समुच्चये, 'समवायपञ्चकम् ' - कालस्वभाव नियतिपुराकृतपुरुषकारलक्षणानां पञ्चानां समवायः, 'निर्जीवं'जीवरहितमस्ति, ' एतैः ' - पूर्वोक्तैर्धर्मास्तिकायादिभिः, 'अजीवैरपि ' -जीवरहितैरपि, जीवसंकुलं '- जीवयुक्तं,
"
समस्तं ' - सर्व, ' जगत् ' - संसार:, ' निरन्तरं ' - सततं, 'धियते ' - धार्यते ॥ ९ ॥
मूलम् - जीवास्त्विमे स्वोर्जितकर्मपुद्गलैः, सन्तः श्रिता दुःखसुखाश्रयीकृताः । द्रव्याणि षट् यत्समवायपञ्चक- मेतन्मयं ह्येव जगन्न चाडपरम् ॥ १० ॥ टीका — उक्तविषयमेवाह - जीवास्त्विम इत्यादिना ' इमे ' - प्रसिद्धास्तु, 'जीवाः ' - आत्मानः, 'स्वोर्जितकर्मपुद्गलैः 'स्वस्योर्जितैः- संगृहीतैः कर्मपुद्गलैः, 'दुःखसुखाश्रयीकृताः ' - दुःखसुखाधीनाः कृताः सन्ति, कथंभूता जीवाः ? ' षड्द्रव्याणि - धर्मास्तिकायादीनि तथा 'समवायपञ्चकं ' - कालादीन् पंचकर्म, ' श्रिताः सन्तः ' - आधीना भवन्तः, अत्र हेतुमाह - यदित्यादिना ' यत् ' - यस्मात् कारणात्, ' ही 'ति निश्चये, 'जगत् ' - संसार:, ' एतन्मयं एव ' - धर्मास्तिकायादि षड्द्रव्यमयमेव, समवायपञ्चकमयं चैवाऽस्ति, ' न चापरमिति ' - पूर्वोक्तस्वरूपादन्यरूपं जगन्नास्तीत्यर्थः ॥ १० ॥
-
तानि कर्माणि जीवः कालादिपञ्चसमवायसामर्थ्यात् गृह्णाति धारयति भुङ्क्ते शमयतीति । एवं नवापि वस्तूनि अजीवानि जीवानाम् जीवनोपाया: । तत्र कालस्तूभयत्र वर्त्तमान आयुरादिसर्वप्रमाणववस्तुप्रमाणकर इति ॥