________________
-
' स्वरूपतुल्यं '-स्वरूपानुरूपं फलम् , ' आनयन्ति'-प्रापयन्ति ॥ ७ ॥ मूलम्-यतोऽभिवर्त्तन्त इमेऽत्र जीवाः, अजीवसम्बन्धमधिश्रिताः सदा ।
जीवन्त्यजीवन्नथ जीवितार-स्त्रैकालिकः सङ्गम एभिरेषाम् ॥ ८॥ टीका-उक्तविषये हेतुमाह-यत इत्यादिना 'यतः'-यस्मात् कारणात् , 'अत्र'-अस्मिन् संसारे, ' इमे'-प्रसिद्धाः, 'जीवा:'-आत्मानः, ' अभिवर्तन्ते'-विद्यन्ते, ते 'सदा'-सर्वदा, 'अजीवसंबन्धमधिश्रिताः'-जडस्य योगमाश्रिताः, IN जडशरीरसंबंधं प्राप्ता इतिभावः, ' जीवन्ति '-जीवनं धारयन्ति, ' अजीवन्'-प्राणान् धारयन्ति स्म, 'अथे 'ति समु-14
चये, 'जीवितार:--जीविष्यन्ति, फलितमाह-त्रैकालिक इत्यादिना 'एषां'-जीवानाम् , 'एभि:'-कर्मभिः सह, ' त्रैकालिका- 1 2 त्रिकालभावी, 'संगमः'-संबंधोऽस्ति ॥८॥
मूलम्-षद्रव्यमध्ये खलु द्रव्यपञ्चकं, निर्जीवमेवं समवायपञ्चकम् ।
एतैरजीवैरपि जीवसकुलं, जगत्समस्तं धियते निरन्तरम् ॥९॥ १. जीविष्यन्ति । २. कर्मभिः । ३. आत्मनाम् । ४. धर्माधर्माकाशपुद्गलजीवास्तिकायकाललक्षणानि षद्रव्याणि, तन्मध्ये जीवास्तिकायमेकं विमुच्य शेषाणि पञ्चद्रव्याणि अजीवानि, एवं कालस्वभावनियतिपराकृतपुरुषकारलक्षणपञ्चसमवायोऽप्यजीवः, एभिर्दशभिरजीवरशेषं जीवसंभृतं जगत् सन्ध्रियते । यथा धर्मास्तिकायेन चलति । अधर्मास्तिकायेन तिष्ठति । आकाशास्तिकाये. नाऽवकाशं लभते । पुद्गलास्तिकायेनाऽऽहारविहारादि करोति । कर्माण्यत्राऽन्तर्भवन्ति । यैरजीवरूपैरयं जीवः सुखदुःखभाग भवति
-
-
-
-