________________
कस्यापि प्रेरणां विना जीवस्य स्वस्वरूपप्राप्तिकरणं, कर्मणः स्वभावम्, जगत्स्वरूपं च षडूभिः श्लोकैराहमूलम् -स्थाने त्वजीवानि पुनर्जडानि कर्माणि किं कर्त्तुमिह क्षमाणि ? |
कश्चित्तदेषां परिणोदकोsस्तु, यच्छक्तितोऽभूनि सहीर्भवन्ति ॥ ६ ॥
टीका - कर्मणो जडत्वात् सुखदुःखकर्तृत्वं न घटत इत्याशंकां प्रश्नयति-स्थाने त्वित्यादिना ' स्थाने ' इति पूर्वोक्तं कथनं उचितमस्तीत्यर्थः, ' तु ' - परन्तु, ' कर्माणि ' ' अजीवानि ' -जीवरहितानि, 'पुन 'रिति समुच्चये, ' जडानि 'अचेतनानि सन्ति तानि, ' इह ' - अस्मिन् संसारे, 'किं कर्तुम् ? ' - किं कार्यं विधातुम् ?, ' क्षमाणि ' - समर्थानि सन्ति, जडानि कर्माणि किमपि कर्त्तुं न शक्तानीत्यर्थः, ' तत् ' - तस्मात् कारणात्, 'एषाम् ' - कर्मणाम्, 'परिणोदकः ' - प्रेरकः, 'कश्चिदस्तु ' - कोऽपि भवेत्, ' यच्छक्तितः ' - यस्य शक्तेः, ' अमूनि ' - कर्माणि, ' सहीभवन्ति - समर्थानि भवेयुः || ६ ||
मूलम् - इदं तु सत्यं परमत्रकर्मणा - मेषां स्वभावोऽस्ति सदेहगेव ।
विनेरकं यान्यखिलात्मनः स्वयं स्वरूपतुल्यं फलमानयन्ति ॥ ७ ॥
टीका - अस्योत्तरमाह - इदं त्वित्यादिना ' इदं तु सत्य ' मिति - एतत् तव कथनं सत्यमस्तीत्यर्थः, 'परम् ' - परन्तु, 'अत्र ' - अस्मिन् संसारे, 'एषां ' - पूर्वोक्तानां कर्मणां, ' सदा -सर्वदा, ' इद्यगेव ' - इत्थंभूत एव, 'स्वभावः ' ' अस्ति'विद्यते, ' यत् ' - यानि कर्माणि, 'ईरकं विना ' - प्रेरक मंतरेण, ' स्वयं ' - स्वतः, 'अखिलात्मनः ' - सर्वेषाम् जीवानां, १. कर्माणि । २. समर्थीभवन्ति ।