________________
अहो ! विधानं परमेश्वरः क्रिया, पुराकृतं कर्म विधा विधिश्च । लोकः कृतान्तो नियतिश्च कर्ता, प्राक्कीर्णप्राचीनविधातृलेखाः॥४॥ इत्यादि नामानि पुराकृतस्य, शास्त्रे प्रणीतानि तु कर्मतत्त्वगैः ।।
तदात्मनो न स्वकर्मणो विना, सुखस्य दुःखस्य च कारको परः ॥५॥ टीका-अस्योत्तरमाह-नैवमित्यादिना 'नैव ' मिति-एतत् कथनं सम्यग् नास्तीत्यर्थः, अत्र हेतुमाह-यदित्यादिना 'यत्'-यस्मात् कारणात् , एतानि'-वक्ष्यमाणानि, 'शास्त्रे पठितानि'-शास्त्रेऽधीतानि, 'कर्मनामानि भवन्ति'-कर्मणोऽभिधानानि सन्ति, तान्येव दर्शयितुमाह-तद्यथेत्यादि । तद्यथेति तथा हीत्यर्थः, 'भाग्यम्'-स्वभावः, 'भगवान्'-अदृष्टम् , 'काल:यमः, ' दैवतदैवदिष्टमिति दैवम् दिष्टमित्यर्थः, 'अहो'-इति चरणपूत्तौं, 'विधानम् परमेश्वरः क्रिया' 'पुराकृत'-पूर्वकृतं, 'कर्म विधा' 'च'-पुन:, 'विधिः लोकः कृतान्तः नियतिः' 'च'-पुनः, 'कर्ता'-प्राकीर्णेत्यादि प्राकीर्णलेखा, प्राचीनलेखा, विधातुलेखा, एतदेव स्पष्टयितुमाह-इत्यादीत्यादीनि, 'नामानि '-एतत्प्रभृतीनि नामधेयानि, 'तु' शब्दश्चरणपूत्तौं, 'पुराकृतस्य '-पूर्वकाले विहितस्य कर्मणः, 'कर्मतत्त्वगैः'-कर्मस्वभावज्ञावृभिः, 'शास्त्रे प्रणीतानि'-शास्त्रे प्रतिपादितानि, फलितमाह-तदित्यादिना 'तत्'-तस्मात् कारणात् , ' स्वकर्मणो विना'-स्वकृतकर्मान्तरेण, 'आत्मनः '-जीवस्य, 'सुखस्य '-सौख्यस्य, 'च'-पुनः, 'दुःखस्य'-क्लेशस्य, 'कारका'-कर्ता, 'परः'-अन्या, 'न'-नास्ति ॥३-५॥
२. कर्मस्वभावः। २. जीवस्य ।