________________
अधुना, ' पूज्यान् ' - पूजार्हान् भवतः, ' प्रणयात् ' - विनयेन, ' पृच्छामि पृच्छां करोमि, यत् ' जीवः ' - आत्मा, ' तु ' शब्दश्वरणपूत, ' शुभाशुभानि कर्माणि - शुभान्यशुभानि च कर्माणि, 'सुखैपी सन् ' - सुखाभिलापी सन्, 'भुङ्क्ते ' - भोगे नयति, तर्हि ' किमु दुःखितः ' इति दुःखितः कथं भवतीत्यर्थः, 'तदे 'ति सति दुःखिते तस्मिन्नित्यर्थः, 'नन्वि 'ति वितर्के ' कश्चित् ' -- कोsपि, ' कर्मनोदकः '-कर्मप्रेरकः, ' अस्ति ' - विद्यते ॥ १ ॥
,
'मूलम् -- विधिर्ग्रहो वा परमेश्वरो वा कर्त्ता यमो वा भगवानिहाऽस्तु । प्रणोदकः कर्मगणस्य येन, दुःखं सुखं वा परिभोज्यते जगत् ॥
२ ॥
"
टीका - कोऽसौ कर्मनोदको भवेदिति वदन्नाह - विधिरित्यादि ' इह ' - अस्मिन् संसारे, ' विधिः ' - विधाताऽथवा, ग्रह ' -सूर्यादिः, ' वा ' - अथवा, ' परमेश्वर: ' - परमेशः, ' कर्त्ता - कारकः. जगद्रचयितेति यावत्, ' यमः ' - यमराजः, वा ' - अथवा, भगवान्, 'कर्मगणस्य - कर्मसमूहस्य, ' प्रणोदकः ' - प्रेरको भवेत्, ' येन ' - विध्यादिना, ' जगत् संसार:, ' दुःखं सुखं वा '-क्लेशं सौख्यं वा, ' परिभोज्यते ' - परिभोगं प्राप्यते, यो जगत् दुःखं सुखं वा भोजयतीतिभावः ॥ २॥
मूलम् - नैवं यदेतानि भवन्ति कर्म - नामानि शास्त्रे पठितानि तद्यथा । भाग्यं स्वभावो भगवानदृष्टं, कालो यमो दैवतदैवदिष्टम् ॥ ३ ॥
-