________________
30000000000000000000000000000000000000000000000000000000000000
10000000000000
0000000080
..mmmmmmmmmmmmmmmmmmmmmmmsmog
000000000000000000000000
00000000000000000000000000
'अवकाशः'-अन्यपदार्थसमावेशनयोग्यः, ' तादृशोऽस्ति'-तथाभूत एव विद्यते, बाह्यसमावेशे याहगवकाश आसीत्तथैव | तत्समावेशेऽपि विद्यत इतिभावः ॥ ७-८॥ ___ जीवपुद्गलधर्मास्तिकायादिपूर्णेऽपि लोके तथैवावकाशोक्तिलेश एकादशोऽधिकारः ।
अथ द्वादशोऽधिकारः जीवसुखदुःखादिकारणं कमैव, भाग्यस्वभावादिनाम्ना कर्मणैव प्रतिपादनं पश्चश्लोकैराहमूलम्-पृच्छामि पूज्यान् प्रणयादिदानी, जीवस्तु कर्माणि शुभाशुभानि ।
भुङ्क्ते सुखैषी किमु दुःखितः सं-स्तदाऽस्ति कश्चिन्ननु कर्मनोदकः ॥१॥ टीका-सुखैषी जीवो दुःखकारणमशुभं कर्म स्वतः कथं भुङ्क्ते ? इत्याशङ्का प्रश्नयति-पृच्छामीत्यादिना 'इदानीम्'१. जीवो हि स्वभावात्, सुखैषी दुःखद्वेषी, तेन सुखहेतुशुभकर्माणि स्वेच्छया भुङ्क्ताम् , परं दुःखकारणमशुभकर्म भोक्तुं स्वेच्छया न समीहते । तदाऽशुभकर्मभोगे तु कश्चित् प्रेरकोऽस्तु येनाऽयमात्माऽशुभकर्मवलात् दुःखं भोज्यते । स च प्रेरको । लौकिकः कश्चिद् वक्ष्यमाणोऽस्तु इति पृच्छाकारः प्रेरकपूर्विका कर्मभुक्तिमाह । तदा कर्मवादी नैवमित्यादिवृतत्रयेणोत्तरमाह।