________________
-
-
555
येन प्रकारेण, 'मान्ति '-संविष्टानि भवन्ति, 'तद्वत् '-तथैव, 'लोकेऽपि '-विश्वस्मिन्नपि, ' द्रव्याणि, '-जीवादीनि, 'नित्यं '-सततं, 'वसन्ति '-तिष्ठन्ति ॥ ४-६ ॥ मूलम्-लोके यथा वा वनखण्डमध्ये, रेणुस्तथामी त्रसरेणवोऽपि ।
सूर्यातपो वह्नितपः सुमानां, गन्धः समीरः पशुपक्षिशब्दः ॥७॥ वादिननाद छदमर्मरादि, सर्वाणि मान्तीह तथाऽवकाशः।
एवं च द्रव्यैर्निचितेऽपि लोके वकाश एषोऽपि च तादृशोऽस्ति ॥८॥ टीका-दृष्टान्तमभिधातुकाम आह-लोक इत्यादि 'वा'-अथवा, 'लोके-संसारे, 'यथा'-येन प्रकारेण, 'वनखण्डमध्ये - अरण्यभागमध्ये ', ' रेणुः'-धूलिः, भवति, 'तथे 'ति समुच्चये, 'अमी-प्रसिद्धाः, 'त्रसरेणवः'-किरणप्रतिबिंबेपूडीयमानरजांसि, ' अपि ' शब्दः समुच्चये भवति, तथा 'सूर्यातपः '-सवितुर्धर्मः, 'वहितपः'-अग्नेस्तापः, 'सुमानां'पुष्पाणाम् , गंधः, 'समीरः '-वायुः, 'पशुपक्षिशब्दः'-पशूनां पक्षिणाम् च रवा, 'वादित्रनादः'-वाद्यानां घोषः, 'छदमर्मरादि'-पत्राणाम् मर्मरादिध्वनिः, 'सर्वाणि'-सकलानि, 'मान्ति'-समाविष्टानि भवन्ति, 'तथे ति तथाप्यर्थः, ' इह'वनखण्डमध्ये, ' अवकाशः'-अन्यपदार्थसमावेशनयोग्यत्वम् भवति, दार्टान्ते घटनामाह-एवमित्यादिना 'एवम् '-उक्तरीत्या, 'च' शब्दवरणपूनौं, 'द्रव्यैर्निचितेऽपि '-द्रव्याप्तेऽपि, 'लोके'-संसारे, अपि शब्दश्चरणपूर्ती, 'एषः'-पूर्वोक्ता,