________________
ज्योतिर्मतिर्व्याकरणादिवियाः, रागा रसाशीविषयाः कषायाः। वाती विनोदा वनिताविलासा, दानादयो मत्सरमोहमैत्र्यः ॥५॥ क्षान्तिधृतिर्दुःखसुखे गुणास्त्रया, आम्नायशङ्काभयनिर्भयाधयः।
ध्यानादयो मान्ति यथैव तद्वद्, द्रव्याणि लोकेऽपि वसन्ति नित्यम् ॥ ६॥ टीका-दृष्टान्तरमाह-पुनश्चेत्यादिना 'पुनः'-शब्दश्च समुच्चये, 'कस्यापि '-कस्यचिदपि, 'विचक्षणस्य '-विज्ञस्य, 'वक्षोन्तरा'-हृदयमध्ये, 'शास्त्रपुराणविद्या'-शास्त्राणां पुराणानां च विद्याः, 'वेदा'-श्रुतयः, 'स्मृतिः'-धर्मशास्त्रम्, 'च'पुनः, 'मंत्रकला:'-मंत्रकौशलानि मंत्रविद्या इतियावत् , 'सर्वाणि'-सकलानि, 'यंत्रतंत्राणि '-यंत्राणि तंत्राणि च, 'अभिधानकोषाः '-नाम्नां कोशः, 'ज्योतिः 'ज्योति शास्त्रम्, 'मति:'-विज्ञानम् , 'व्याकरणादिविद्या '-व्याकरणादीनां विज्ञानम् , आदिशब्देन न्यायादिपरिग्रहः, 'रागा'-ध्रुवपदादयः, 'रसाशीविषयाः'-शृंगारवीरादीनां रसानाम् आशिषां च विषया, 'कषायाः '-क्रोधादयः, 'वार्ता'-कथा, 'विनोदा:'-चित्तशैथिल्याय हरणजनका उपन्यासादिविषया:, 'वनिताविलासा:'-रामानयनाचंगोत्पन्नहावविशेषाः, 'दानादयः'-प्रदानप्रभृतया, 'आदि' शब्देन शीलादिपरिग्रहः,
'मत्सरमोहमैव्यः'-मत्सरोऽन्यशुभद्वेषः, मोहः-मूर्छा, मैत्री-मित्रत्वम् , 'शान्तिः '-क्षमा, तितिक्षेतियावत् , 'धृतिः'* धैर्यम् , 'दुःखसुखे'-क्लेशसौख्ये, ' गुणास्त्रयः'-सत्त्वरजस्तमोरूपाः, आम्नायेत्यादि 'आम्नायः '-संप्रदाया, 'शंका'* स्नेहः, 'भयं'-भीतिः, 'निर्भयम् '-भयराहित्यम् , ' आधयः'-मानसिकव्यथाः, ध्यानादय:'-ध्यानप्रभृतयः, 'यथैव'
ॐॐAS-SERॐ45