________________
' गांधिकमध्ये " - गंधविक्रेत्क्रयविक्रयस्थाने, 'कर्पूरगन्धः ' - घनसारस्य गन्धः, ' प्रसुतोऽस्ति ' - प्रसरणं प्राप्तो भवति, तत्र ' - तस्मिन् गांधिकहमध्ये, कस्तूरिकाजातिफलादिसर्ववस्तूत्थगंध ः ' - कस्तूरिका - मृगमदः जातिफलं -जातिकोशमित्यादिभ्यः सर्वेभ्यो वस्तुभ्य उत्थः - उत्पनी गंध:, ' नन्विति ' - वितर्फे, 'किं न माति १' - किं समावेशं न याति १ परिमात्येवेतिभावः ॥ २॥
मूलम् -- तत्राऽस्ति मार्त्तण्डतपस्तथैव, धूपस्थ धूमस्त्रसरेणवोऽपि ।
१२
वायुच शब्दच सुमादिगन्धो, मातो यथा स्यादथ चाऽवकाशः ॥ ३ ॥
टीका - अत्रैव पुष्टिमाह - तत्राऽस्तीत्यादिना ' तत्र ' - गांधिक हट्टमध्ये, ' मातेडतपः ' - सूर्यस्याssतपः, ' अस्ति - विद्यते, ' तथैवेति' - समुच्चये, ' धूपस्य धूमः ' - सुगंधिद्रव्यजन्यधूपस्य धूमः, ' त्रसरेणवोऽपि - किरणप्रतिबिंबोडीयमानरजांस्यपि, 'च' - पुनः, 'वायुः '- पवनः, 'च'- पुनः शब्दः, तथा 'सुमादिगन्धः - पुष्पादीनां गन्धः, ' यथा - येन प्रकारेण, ' मातः स्यात् ' - समाविष्टो भवेत्, ' अथ चे 'ति - तथापीत्यर्थः, ' अवकाशं ' - अन्यगन्धादिवस्तुसमावेशनयोग्यत्वं भवति ॥ ३॥
मूलम् - पुनश्च कस्याऽपि विचक्षणस्य, वक्षोन्तराशास्त्रपुराणविद्याः ।
वेदाः स्मृतिर्मन्त्रकलाश्च यन्त्र-तन्त्राणि सर्वाण्यभिधानकोषाः
11 8 11