________________
दीनां द्रव्यक्षेत्रकालभावानाम् सामग्र्यम् सामग्रीसमवायस्तस्य तथा तादशी अनन्यरूपेति यावत् या निवार्याऽप्रतिहता शक्ति:-- सामर्थ्यं तथैव तया - प्रेरकभूतयेतिभावः, ' तादृशान्यपि ' - तादृग्भूतान्यपि, जडान्यजीवानि चापीति यावत् कर्माणि, ' तु ' ' शब्दवरणपूत, 'स्फुटानि - व्यक्तानि भूत्वा 'स्वकर्तृकं - स्वस्य कर्त्तारम् ' एनं ' - पूर्वोक्तम्, 'आत्मानं 'जीवम्, 'बलात्' - बलपूर्वकम्, 'नन्वि 'ति निश्रये, ' दुःखयन्ति ' - क्लेशयन्ति, क्लेशे नयन्तीतिभावः ॥ १५-१६ ॥ मूलम् - यथोष्णकालादिऋतौ समेते, कचिज्जनः शीतलवस्तुसेवी । मृष्टादिकाम्लादिकरम्भभोजी, स्यात्तस्य तद्योगसमुत्थवातः वर्षाऋतुं प्राप्य पुरुं प्रकुप्यति, प्रायो वपुःस्थः स समीर उग्रः । लब्ध्वा च कालं शरदाख्यमेष, प्रायेण संशाम्यति पित्तभावात् ॥ १८ ॥ एवं हि वातादिकवस्तुनस्तू - त्पत्तिस्थितिप्रान्तदशात्रयेऽपि । आत्माश्रितस्याऽस्य न कश्चिदन्यः, विनैव कालादिकमत्र हेतुः ॥ १९ ॥
॥ १७ ॥
टीका - अत्र दृष्टान्तमाह-यथेत्यादिना ' यथा ' - येन प्रकारेण, ' उष्णकालादिऋतौ ' - निदाघादावृत्तौ, ' समेते - उपस्थिते सति, ' कश्चित् ' - कोऽपि, ' जनः ' - मनुष्यः, 'शीतलवस्तुसेवी ' - शीतलपदार्थसेवनकर्त्ता, तथा 'मृष्टादिकाम्लादि
१. भूरि । २. उत्पत्तेः । ३. नाश ।
१३