________________
मूलम्-पूज्याः ! निगोदासुमतां मनोऽस्ति नो, केनेडशं तन्दुलमत्स्यवद् भृशम् ।
प्रजायते कर्म यतस्त्वनन्त-कालप्रमाणं परिपाक एवम् ॥ ३८॥ टीका-अनन्तकालस्थायि परिपाकविषये प्रश्नयति-पूज्या इत्यादिना ' हे पूज्याः !' हे माननीयाः !, 'निगोदासुमतां'-निगोदजीवानाम् , ' मनः'-चित्तं, 'नो अस्ति'-न विद्यते, तर्हि 'तंदुलमत्स्यवत् '-तंदुलनामकमत्स्यविशेषवत् , 'भृशं '-निरन्तरम् , ' ईदृशम् '-इत्थंभूतम् , कर्म, ' केन'-कारणेन, 'प्रजायते '-उत्पद्यते, ' यतः'-यस्मात् कर्मणस्तु, 'एवम् '-उक्तप्रकारका, 'परिपाकः '-विपाकः, फलमिति यावत् , 'अनन्तकालप्रमाणम् '-अनन्तकालपर्यन्तम् , क्रियाविशेपत्वात् क्लीबत्वम् भवति ॥ ३८॥ मूलम्-सत्यं यदेतन्न मनोऽस्त्यमीषां, तथापि चान्योन्यविवोधनोत्थम् ।
दुष्कर्म तूत्पद्यत एव यव-द्विषं निहन्त्येव यथा तथाहृतम् ॥ ३९ ॥ टीका-अस्योत्तरमभिधातुकाम आह-सत्यमित्यादिना यद्यपि 'एतत्'-पूर्वोक्तं कथनं सत्यमस्ति, यत्, 'अमीषां'निगोदजीवानाम्, 'मन:'-चित्तं, 'नास्ति'-न विद्यते, 'तथापि'-तदपि, 'च' शब्दश्चरणपूर्ती, ' दुष्कर्म तु'निकृष्ट कर्म तु, 'उत्पद्यत एव'-जायत एव, कथंभूतं दुष्कर्म ? ' अन्योऽन्यविवाधनोत्थं '-परस्परपीडनोत्पन्नम्, अत्र
१. पीडन । २. यथा । ३. विषं शातमशातं वा भक्षितं मारयति तत्र शाते तु स्वयमन्यो वा कश्चिदुपायमपि कृत्वा जीवे. दपि परमशातं तु मारयत्येवेति शेपः, अत एवैपां मनो विना समुत्पन्नं परस्परवैरमन्तकालेऽपि भुज्यमानं न पूर्ण स्यादिति तत्त्वम् ।
-
-
-
-