________________
ভ
दृष्टान्तमाह - यदुवदित्यादिना ' यवदिति ' - यथेत्यर्थः, यथा तथा ज्ञातदशायामज्ञातदशायां वा, ' आहृतम् ' - युक्तं, ' विषं ' - गरलं, निहंत्येव ॥ ३९ ॥
मूलम् -सञ्ज्ञाश्चतस्रोऽप्यथवैषु मिथ्या, योगः कषायोऽविरतिश्च सन्ति ।
इमानि सर्वाण्यपि कर्मबन्ध - बीजान्यनन्तैस्त्वधिको विरोधः ॥ ४० ॥
टीका - संज्ञातरेण कर्मबंधमाह - संज्ञा इत्यादिना ' अथवा ' - यद्वा, ' एषु ' - निगोदजीवेपु, 'मिथ्या ' - मिथ्यात्वम्, ' योगः ' - काययोगादिकः, 'कपाय: ' - क्रोधादिः, ' अविरति : ' - अविरमणम्, 'च' शब्दः समुच्चये, ' चतस्रः ' - चतुः संख्याका संज्ञाः, अपि, 'सन्ति ' - विद्यन्ते, ' इमानि ' - एतानि पूर्वोक्तानि सर्वाण्यपि ' -सकलान्यपि, सामान्ये क्लीवत्वप्रयोगः, संज्ञानि कृत्यानि इत्यस्य वा पदस्याध्याहारो विधेयः, 'कर्मबंधवीजानि ' - कर्मवन्धस्य कारणानि, ' तु' शब्दो भिन्नक्रमद्योतनार्थः, ' अनन्तैस्त्वधिको विरोधः ' -- अनन्तैः सह योऽधिको विरोधोऽस्ति तस्य तु किं वक्तव्यम् १ स त्वतिशयेन कर्मबंधहेतुरस्त्येतिभावः ॥ ४० ॥
मूलम् — एवं निगोदासुमतां निदर्शनैः किश्चित्स्वरूपं गदितं यथामति ।
यतस्त्विदं नो किल कोऽपि वक्तुं शक्तो विना केवलिनं कुलीनाः ॥ ४१ ॥ टीका-पूर्वोक्तं विपयमुपसंहर्तुमाह - एवमित्यादिना ' हे कुलीनाः ! ' - हे सत्कुलोद्भवाः !, 'एवम् ' - अनया रीत्या, १. निगोदेषु । २. मिथ्यात्वम् । ३. काययोगादिकः ।