________________
K
टीका - अत्रैव दृष्टान्तरमाह - तथेत्यादिना ' तथा ' - तेनैव प्रकारेण, 'पुनः ' इति समुच्चये, ' तस्करके ' - चौरे, ' निहन्यमाने ' - मार्यमाणे सति, ' च ' - पुनः, 'सत्यां ' - पतिव्रतायाम्, 'अनले विशन्त्याम् ' - अग्नौ प्रवेशं कुर्वन्त्याम्, ' कौतूहलार्थं ' - कौतुकनिमित्तं, ' परिपश्यताम् ' - वीक्ष्यमाणानाम्, ' नृणां ' - मनुष्याणाम्, द्वेषं विना ' - विना वैरमंतरेणैव, ' कर्मसञ्चयः -' कर्मबंधः, ' उत्तिष्ठति ' - उद्भवति, जायत इत्यर्थः, 'तं ' - पूर्वोक्तम् कर्मसञ्चयम्, 'किले 'ति निश्वये, 'बुधा: ' - विद्वांसः, 'सामुदायिकम् ' - समुदाय भवम्, 'आहु: ' - कथयन्ति, ' यदीयः ' - यस्य संबंधी, 'भोगोऽपि 'कलाsनुभवोऽपि, ' अनेकशः ' - अनेकप्रकारं, 'नियतः ' - निश्चितोऽस्ति, फलितमाह - एवमित्यादिना ' ही 'ति चरणपूत, चेत् ' - यदि, ' एवम् ' -उक्तरीत्या, ' कौतुकतः ' -कुतूहलवशात्, 'कृतानां' विहितानाम्, 'स्वकर्मणां ' - निजकार्याणाम्, अत्र ' - अस्मिन् संसारे, 'सुदुर्विपाकः ' - अतिशयेन निकृष्टम् फलम् भवति, ' तदा ' - तर्हि, ' अनन्तजीवै: ' - अनन्तजन्तुभिः सह, 'अन्योऽन्यबाधोत्थविरोधजन्मनां ' - परस्परं बाधया - पीडयोत्थः - उत्पन्नो यो विरोधः - द्वेषस्तस्माज्जन्मोत्पत्तिर्येषां ते तथा तेषाम् एवंभूतानाम्, ' कृतकर्मणां ' -विहितानां कर्मणां ' भोगः ' - फलानुभवः, ' ही 'ति निश्वये, ' अनन्ते ' - अन्तरहितेऽपि, 'काले ' - समये, ' अपगते ' - व्यतीते सति, 'निगोदजीवैः - निगोदजन्तुभिः, ' जातु ' - कदाचित्, ' नहि पूर्यते ' - नहि पूर्त्तिं नीयते ।। ३५-३७ ।।
निगोदजीवानां मनो विनापि कर्मबन्धनं भवतीति चतुःश्लोकैराह