________________
कथं न भोग्यं पुनरेधमानं तदेव तेनैव ततोऽप्यनन्तम् । एवं निगोदासुमतां न वैरं सान्तं न दुष्कर्म च नाऽपि कालः ॥
३० ॥
'
टीका - इदानीं दुःखहेतुं स्पष्टयति - एकस्येत्यादिना ' इह ' - अस्मिन् संसारे, एकस्यापि ' जंतोः '- जीवस्य, 'एकेन जीवेन ' - एकेन जंतुना सह यत् 'वैरं ' - शत्रुत्वम् भवति, परन्तु, 'चेत् ' - यदि, 'एकस्य जंतोः - एकजीवस्य्, 'अनंतजीवै: ' - अनंतजन्तुभिः सह यत् ' वैरं ' - शत्रुत्वम्, ' भवेत् ' - स्यात्, तर्हि तदुद्वैरम् ' अनंतकालै: ' - अनन्तसमयैः, 'कथं न भोग्यम् ' - कुतो न भोगार्हमस्ति, ' पुनः ' - पश्चात्, ' एधमानं ' - वर्द्धमानम्, वृद्धिं प्राप्नुवदितिभावः, ' तद् ' - चैरमेव, ' तेनैव ' - कारणेन, ततोऽपि, ' अनन्तकालादपि ' - अनन्तमनन्तकालयुक्तम् भवति, फलितमाह - एवमित्यादिना 'एवम् उक्तरीत्या, 'निगोदसुमताम् ' - निगोदजीवानाम्, 'वैरं ' - शत्रुत्वम्, 'सान्तम् ' - अंतेन सह विनाशीतिभावो न भवति, 'दुष्कर्म ' - निकृष्टं कर्म, न सान्तं भवति, 'च' - पुनः, ' काल: ' - समयोऽपि न सांतो भवति ।। २९-३० ॥ मूलम् - लोके यथा गुप्तिगृहाश्रिताना - मन्योन्यसंमर्दनिपीडितानाम् । प्रत्येकमाबद्धनिकामवैर-भाजां नराणां किल कर्मबन्धः ॥ ३१ ॥ भावस्त्वमीषामलमीदृशः स्याद्यदेषु कश्चिन्त्रियतेऽपयाति वा । तदाहमासीय सुखेन भक्ष्य - मायाति किञ्चिदूधनमंशतश्च ॥ ३२ ॥