________________
SURGICAL
'केवलिनं विना'-केवलज्ञानिनमंतरेण, 'कश्चित् '-कोऽपि, 'विज्ञोऽपि '-विद्वानपि, 'विज्ञातुं'-ज्ञातुं, न पर्याप्तोऽस्ति, | 'तथापि'-तदपि, 'च' शब्दश्वरणपूत्तौं, 'प्रत्ययहेतवे'-ज्ञानकारणाय, ज्ञानार्थमिति यावत् , 'अद:'-वक्ष्यमाणं, 'किञ्चन'किमपि, 'कर्मजातम्'-कर्मप्रकारं, 'निगद्यते'-कथ्यते मया, 'अत्र'-अस्मिन् संसारे, यद्यपि, 'अमी'-पूर्वोक्ताः, 'निगोदजीवाः'-निगोदजन्तवः, 'ही'ति निश्चये, 'स्थूलास्रवान्'-स्थूलानारंभान्, 'सेवितुम्'-भोक्तुम् , ' अक्षमाः'-असमर्थाः, सन्ति परन्तु, ' यत् '-यस्मात् कारणात् , ' अमी'-निगोदजीवाः, 'प्रतिजन्तुविद्धाः '-प्रत्येकप्राणिद्वारा वेधनं प्राप्ताः, 'एकतनुं श्रिता'-एकशरीरमाश्रिताः, 'अनन्ताः '-अंतरहिताः, 'तिष्ठन्ति'-वर्तन्ते, तथा, 'पृथक्पृथग्देहगृहप्रमुक्ताःपृथक्पृथक्शरीररूपगृहेण रहितास्तिष्ठन्ति, तथा 'परस्परद्वेषकरात्मसंस्थाः'-परस्परं द्वेषकारणात्मना-तैजसकार्मणाख्येन संस्था-संस्थितिर्येषां ते, तथा ' तिष्ठन्ति ' तथा ' अत्यंतसंकीर्णनिवासलाभात् '-अत्यन्तमतीव संकीर्ण:-संकीर्णत्वयुक्तो यो निवासः-निवसत्याश्रयस्तस्य लाभात्-प्राप्ते, अत्यंतसंकीर्णवासस्थानप्राप्तेरितिभावः । 'अन्योन्यसंबद्धनिकाच्यवैराः 'अन्योन्यं-परस्परं संबंध-बंधनं नीतं निकाच्यवैरं-निकाचितशत्रुत्वं यैस्ते, तथा तिष्ठन्ति ' तत् '-तस्मात् कारणात्, 'एषु'निगोदजीवेषु, 'प्रत्येकमपि '-एकमेकं प्रत्यपि, एकैकस्यापीतिभावः, 'अनंतजीवैः'-अनन्तजन्तुभिः सह, 'उग्रवैरम् - तीक्ष्णं शत्रुत्वम् , ' अभिवर्तमानम् '-स्थितिमत् भवति ॥ २५-२८ ॥
मूलम्-एकस्य जन्तोर्यदपीह वैर-मेकेन जीवेन तदप्यजेयम् ।
एकस्य जन्तोर्यदनन्तजीव-वैरं भवेचेत्तदनन्तकालैः ॥ २९ ॥
SISTESSE