________________
15645625
SSS
इत्यादिकं वैरमतुच्छमीहक , प्रवर्धमानं प्रतिबन्दि यत्स्यात् ।
तस्मादमीषामतिदुष्कृतं स्या-देवं निगोदाङ्गभृतामपीक्ष्यम् ॥ ३३ ॥ टीका-अत्र लौकिकोदाहरणमाह-लोक इत्यादिना ' यथा '-येन प्रकारेण, ‘लोके '-संसारे, 'किले 'ति निश्चये, 'नराणाम् '-मनुष्याणाम्, 'कर्मबंधः '-कर्मयोगो भवति, केषां नराणाम् ? इत्याह-' गुप्तिगृहाश्रितानाम् '-कारागृहस्थितानाम् , कथंभूतानाम् गुप्तिगृहाश्रितानाम् ? (अन्योन्यसम्मनिपीडितानाम् '-परस्परं विमर्दनेन दुःखितानाम्, पुन: कथंभूतानां ? 'प्रत्येकमावद्धनिकामवैरभाजां'-एकैकं प्रति आबद्धं-बंधनं नीतं यनिकामवैरं-निकाम्य शत्रुत्वं तद्भाजांतयुक्तानाम् , कर्मबंधत्वे हेतुमाह-भावस्त्वित्यादिना ' अमीप '-गुप्तिगृहाश्रितानां नराणां, ' भावस्तु '-चित्ताशयस्तु, 'अलं'-पर्याप्तत्वेन, ' ईदृशः' इत्थंभूतः, ' स्याद् '-भवति, ' यदेपु'-एषां मध्यात्, यदि, 'कश्चित् '-कोऽपि नरः, 'नियते'-मृत्युं प्राप्नुयात् , 'वा'-अथवा, 'याति'-नश्येत् , 'तदा'-तर्हि, अहं, 'सुखेन'-सुखपूर्वकम् , 'आसीयम् - तिष्ठेयम्, 'च'-पुनः, 'भक्षं'-भक्षणीयं वस्तु, 'अंशतः '-विभागेन, 'किश्चित् '-किमपि, ‘धनम् '-अधिकम् , 'आयाति'-आगच्छेत् , पूर्वापेक्षया किञ्चिरधिकं भक्ष्यं लभ्येतेतिभावा, फलितमाह-इत्यादिकमित्यादिना ' यत्'-यस्मात् कारणात् , ' इत्यादिकम् '-एतत् प्रभृतिकम् , ' अतुच्छम् '-अस्वल्पम् , ' ईदृक् '-इत्थंभूतं, 'प्रवर्द्धमानं '-वृद्धि गच्छत् , 'वैरं'-शत्रुत्वम्, 'प्रतिबन्दि'-बन्दिनं प्रति, एकैकबन्दिन इतिभावः, 'स्याद् '-भवेत् , ' तस्मात् '-कारणात् , 'अमीषां'गुप्तिगृहाश्रितानां नराणाम् , ' अतिदुष्कृतम् '-अतिदुष्कर्मबंध, ' स्याद् '-भवेत् , ' एवम् '-उक्तरीत्या, 'निगोदांगभृता