________________
॥ २२ ॥
२३ ॥
मूलम् - स्वामिन्निगोदाद्यसुमान् न्यदन् सन्, न गौरवं केन लभेद् गुणेन च । यथा हि सूतो विविधांश्च धातू - नश्नन् भजत्येष गरिष्ठतां नो ॥ २१ ॥ वस्त्रं यथा चम्पकपुष्पवासितं यथा च कृष्णागुरुधूपधूपितम् न मौलभारान्ननु याति गौरवं दृष्टान्त एकः पुनरत्र शास्त्रगः सिद्धो यथा तोलकमानपारदः, स्विन्नः स हेम्नः शततोलकेन । न वर्धतेऽसौ निजतोलकाभरा - देवं न जीवेऽपि भरः कृताहृतौ ॥ टीका- निगोदजीवानाम् गुरुत्वविषये प्रश्नयति - स्वामिन्नित्यादिना ' हे स्वामिन् ! ' - हे प्रभो !, 'निगोदाद्यसुमान् ' - निगोदादिजीवान्, ' न्यदन् सन् ' - आहारं कुर्वन् सन्, 'केन ' - गुणेन, 'गौरवं ' - गुरुत्वं, ' न लभेत् ' - न प्राप्नोति, परस्मैपदं चिन्त्यं, ' च ' शब्दश्चरणपूर्ती, अस्योत्तरमाह-यथेत्यादिना ' ही 'ति निश्वये, 'च' शब्दश्चरण पूर्त्तो, ' यथा ' - येन प्रकारेण, ' सूतः - पारदः, यद्यपि, ' विविधान् धातून् ' - अनेकप्रकारान् सुवर्णादिधातून्, ' अश्नन् 'भक्षयन् भवति, तथाऽपि ' एप: ' - सूतः, ' गरिष्ठतां नो भजति ' - गुरुत्वं न प्राप्नोति, दृष्टान्तरमाह - वस्त्रमित्यादिना यथा ' - येन प्रकारेण, ' चम्पकपुष्पवासितं ' - चम्पककुसुमैर्वासनां नीतं, ' च ' - पुनः, ' यथा ' - येन प्रकारेण, 'कृष्णागुरुधूपधूपितं ' - कृष्णं - श्यामं यदगुरु तस्य धूपस्तेन धूपितं - वासितं वस्त्रं, 'नन्वि 'ति निश्चयेन, 'मौलभारात् ' - स्वाभा १. आहरन् । २. कृताहारे ।
११