________________
परं यदाछेन्नशुषीनरश्मि - समुत्थवंशीत्रसरेणुरूपम् ।
प्रकाशयोगादभिवीक्ष्यते तत्, दृश्यास्तथा दिव्यदृशा निगोदाः ॥ २० ॥
"
टीका - उक्तविषयमेव स्पष्टयति - ते केवलेत्यादिना ' ते ' - निगोदजीवाः, ' ही 'ति निश्रये, ' केवलज्ञानवता ' - केवलज्ञानयुक्तेन, ' दृश्या: ' - ज्ञेयाः, दर्शनीया वा सन्ति, अत्र दृष्टान्तमाह-यथेत्यादिना ' ही 'ति निश्चये, 'यथा ' - येन प्रकारेण, 'अतिसूक्ष्मम् ' - अतिशयेन सूक्ष्मं, ' रजः ' - धूलि, ' सर्वत्र ' - सर्वस्थलेषु, 'उड्डीयमानम् ' - उड्डयनं कुर्वत्, अक्ष्णा ' - नेत्रेण, ' न दृश्यते ' - नाऽवलोक्यते, 'च' शब्दश्वरणपूत, 'च' - पुनः, ' राशीभवनेऽपि ' - राशिभावं प्रापणेऽपि, ' एकोऽपि ' शब्दश्चरणपूत, तद्रजः ' न बोध्यं ' - न ज्ञेयं भवति, ' परे ' - परन्तु, ' यत् ' - रजः, 'आछन्नग्रुपीनरश्मिसमुत्थवंशीत्रसरेणुरूपम् ' - आच्छादितप्रदेशे जातं यत् छिद्रं तत्रागता ये इनरश्मयः - सूर्यकिरणास्तेभ्य उत्पन्ना ये वंशीकाराः - किरण प्रतिविम्बास्तत्र यदुड्डीयमानं रजस्तत् त्रसरेणुरित्युच्यते तद्रूपमस्ति, 'तत्' - रजः, ' प्रकाशयोगात् '- प्रका शस्य संयोगेन, 'अभिवीक्ष्यते ' - दृश्यते, ' तथा ' - तेनैव प्रकारेण, ' निगोदा: - निगोदजीवाः, 'दिव्यदृशा ' - दिव्यनेत्रेण, ' दृश्याः ' - दर्शनीया भवन्ति ॥ १९-२० ॥
निगोदजीवानामाहारादिकरणेऽपि न गुरुत्वमिति चतुःश्लोकैराह
――
१. आच्छादितप्रदेशे जातं यत् छिद्रं तत्रागता ये इनरश्मयः - सूर्यकिरणास्तेभ्य उत्पन्ना ये वंशीकाराः - किरणप्रतिविम्वास्तत्र यदुड्डीयमानं रजस्तत् त्रसरेणुरित्युच्यते तस्य यद्रूप दर्शनम् ।