________________
विकभारापेक्षया, 'गौरवं ' - गुरुत्वं, ' न याति न प्राप्नोति, गुरु न भवतीतिभावः, दृष्टान्तरमभिधातुकाम आहदृष्टान्त इत्यादि ' अत्र ' - अस्मिन् विषये, ' शास्त्रगः - शास्त्रसंबंधी, शास्त्रोक्त इतिभावः, ' एकः ' - दृष्टान्तः, पुनः कथ्यते तमेवाह - सिद्ध इत्यादिना ' यथा ' - येन प्रकारेण, ' सिद्ध: ' - औपधादिभिः सिद्धिं नीतः, 'तोलकमानपारदः 'तोलकपरिमाणकः सुतः, यो भवति स पारदः, 'हेम्नः ' - सुवर्णस्य, ' शततोलकेन ' - शतसंख्याकतोलकैः, 'स्विन्नः ' - पाकं नीतः, भवति ' यद्यपि ' - तथाऽपि, 'असौ ' - पारदः, 'निजतोलकाद्भरात् ' - स्वस्य तोलकपरिमा णको भारस्तदपेक्षया, 'न वर्धते ' - अधिक वृद्धिं न याति दान्तविषय आह - एवमित्यादिना 'एवम् ' -उक्तप्रकारेण, 'कृताहृतौ ' - कृताहारे जीवेऽपि, ' भर: न ' - भारो नैव भवति । उक्तरीत्या कृताहारेऽपि जीवे पूर्वापेक्षयाऽधिको भारो न भवतीत्यर्थः ।। २१-२२-२३ ॥
मूलम् - यथा पुनर्मारुतपूर्णमध्या, दृतिः स्वभारादधिकी भवेन्नो ।
।
तथैव जीवो विहिताशनोऽपि, स्वगौरवान्नाधिकगौरवश्रित् ॥ २४ ॥
टीका - अत्रैव दृष्टान्तरमाह-यथा पुनरित्यादिना पुनः ' यथा - येन प्रकारेण, 'मारुतपूर्णमध्या ' - मारुतेन - वायुना पूर्ण भृतं मध्यं - मध्यभागो यस्याः सा तथा पवनपूर्णेत्यर्थः, 'दृतिः ' - चर्मपुटकः, 'स्वभारात् ' - स्वभारापेक्षया, 'नो'नैव, ' अधिकी भवेत् ' - अधिकभारयुक्ता जायते, ' तथैव ' - तेनैव प्रकारेण, 'विहिताशनोऽपि ' - कृताहारोऽपि, ' जीवः 'जन्तुः, 'स्वगौरवात् ' - स्वभारात्, स्वभारापेक्षयेति यावत्, 'अधिकगौरवश्रित् ' - अधिकभारयुक्तो न भवति ॥ २४ ॥