________________
' तद्रसं' - लवणोदजलरसयुक्तं भवति, एवम् ' व्यवहारराशितः ' - व्यवहारराशिमतिक्रम्येतिभावः, 'निगोदकेषु ' - निगोदेषु गताः ' - प्राप्ताः, ' ये जीवाः ' -जतवः सन्ति तेऽपि, ' तत्समाः ' - निगोदजीवसदृशाः, ' भवन्ति ' -जायन्ते ॥ ८ ॥
मूलम् - तद्वारि मेघस्य मुखं समाप्य, पेयं भवेच्चाथ सुखीभवन्ति ।
एवं निगोदादपि निर्गता ये, संलभ्य जीवा व्यवहारराशिम् ॥ ९ ॥
टीका - तद्द्वारीत्यादि ' तद्वारि ' - लवणोदस्य जलम्, यथा 'मेघस्य ' -जलदस्य, ' मुखं '- संबंधं, ' समाप्य ' - प्राप्य, ' पेयं भवेत् ' - पातुं योग्यं जायते, 'चाथ' शब्दौ चरणपूर्ती, ' एवम् ' - उक्तप्रकारेण, ' ये ' -जीवा: - जंतवः, निगोदादपि ' - निगोदतोऽपि, ' निर्गताः ' - निष्क्रान्ता भवन्ति, ते ' व्यवहारराशिं ' - व्यवहारनामकं राशि, ' संलभ्य 'प्राप्य, ' सुखीभवंति ' - सुखिनो जायन्ते ॥ ९ ॥
मूलम् - यद्वागमज्ञस्य नरस्य कस्यचित्, हृदन्तरोच्चाटनमन्त्रवर्णाः ।
तिष्ठन्ति तैः किं कृतमत्र दुःकृतं यदीदृशं नाम निगद्यते जनैः ॥ १० ॥
टीका - दृष्टान्तरमाह - यद्वेत्यादिना ' यद्वा ' - अथवा, 'आगमज्ञस्य' - मांत्रिकस्य, ' कस्यचित् ' - कस्याऽपि, 'नरस्य'जनस्य, ' हृदन्तरा ' - हृदयमध्ये, 'उच्चाटन मंत्रवर्णाः ' - उच्चाटनकारक मंत्रस्याक्षराणि, ' तिष्ठन्ति ' -स्थितिं कुर्वन्ति, 'तैः 'उच्चाटन मंत्र वर्णैः, ' अत्र ' - अस्मिन् संसारे, किं ' दुष्कृतं ' - निकृष्टं कार्यम् ' कृतं ' -विहितमस्ति, ' यत् ' - यस्मात्
१. लवणोदस्य वारि । २. मान्त्रिकस्य । ३. उच्चाटनेति दुर्नाम ।