________________
ECS-SAR
393IHIRIS4364X HORAIRISHA
'अनन्तकालेऽपि '-अनन्तसमयेऽपि, ' पेयं न भवेत् '-पातुं योग्यं न भवति, ' यत् ' शब्दस्तथार्थः, 'वर्णान्तरम् '-अन्यं द वर्ण, 'नैवाश्रयेत् '-नाश्रयति, वर्णान्तरमपि न प्रामोतीत्यर्थः ॥ ६ ॥
मूलम्-अनन्ततोऽनन्ततरस्त्वनेहा, बभूव वाढेलवणोदनाम्नः।।
विनेदृशं कर्म न नाम वाच्यं, तत्कुत्र दुष्कर्म कृतं जलेन ॥७॥ टीका-उक्तविषयमेव दृढयति-अनन्तत इत्यादिना 'लवणोदनाम्नः '-लवणोदनामकस्य, वाद्वैः'-समुद्रस्य, 'अनंतत:--अनन्तात् , ' अनंततरः'-अतिशयेनानंतः, अनन्तादप्यधिकोऽनंत इतिभावः, 'अनेहा'-कालः, 'तु' शब्दश्चरणपूत्तौं, 'बभूव '-अभवत् , 'कर्म विना'-कार्यमंतरेण, दुष्कर्म विनेत्यर्थः, ' इदृशं'-पूर्वोक्तं, 'नाम'-अभिधानम् , लवणोद इति नामेतिभावः, 'न वाच्यम्'-न कथनीयम् भवति, 'तत्'-तर्हि, जलेन, 'कुत्र'-कस्मिन् स्थाने, 'दुष्कर्मनिकृष्टं कर्म, 'कृतम् '-विहितम् ॥ ७॥
मूलम् यत्रापि गङ्गादिमहानदीभवं, जलं गतं तद्गतरूपि तद्रसं।
निगोदकेषु व्यवहारराशितो, जीवा गतास्तेऽपि भवन्ति तत्समाः॥ ८॥ टीका-उक्तविषयमेव स्पष्टयति-यत्रापीत्यादिना 'गंगादिमहानदीभवं'-गंगादीनां महानदीनां संबंधि, 'जलंवारि, अपि, 'यत्र'-यस्मिन् लवणोद इतिभावः, 'गतं'-प्राप्तं सन्, 'तद्गतरूपि'-लवणोदस्थितजलस्वरूपम्, 'तथा'
१. दुष्कर्म ।
SSES