________________
"
गच्छन्ति, ' तेऽपि जीवा' ' ' निगोदजीवत्वम् लभन्ते ' - निगोदजीवभावं प्राप्नुवन्ति, एतेषाम् ' कथं ' - केन प्रकारेण, व्यवस्था ' - व्यवस्थानकम्, भवति, 'कुतः ' - कस्मात् ' आविरस्ति ' - प्राकट्यं भवति, अस्य प्रश्नस्योत्तरमाह - निशम्य - तामित्यादिना ' हे विचारसञ्चारितचित्तवृत्ते !'- विचारे सञ्चारिता - सञ्चारं नीता चित्तवृत्तिर्मनसो भावो येन स तथा तत्संबोधनें, ' अयं ' - पूर्वोक्तः, 'विचार: ' - परामर्शः, 'सम्यग् ' - समीचीनतया, ' निशम्यताम् ' - श्रूयतां त्वया ॥ १-४ ॥
मूलम् - निगोदजीवेषु सदैव दुःखं यदस्ति तत्ताहशजातिभावात् । तथाविधक्षेत्रजनिप्रलम्भा - न्महात्र्त्तिदोदर्कतथाप्रणोदात् ॥ ५ ॥
टीका- विचारमेव दर्शयति - निगोदजीवेष्वित्यादिना ' निगोदजीवेषु ' यत् ' सदैव ' - सर्वदेव, 'दुःखमस्ति ' - दुःखं भवति, 'तत्' - दुःखं, ' तादृशजातिभावात् ' - तथाविधजातिस्वभावात्, 'तथाविधक्षेत्रजनिप्रलम्भात् ' - तादृश क्षेत्रोत्पत्तिप्राप्तेः, तथा ' महार्तिदोदर्कतथाप्रणोदात् ' - महापीडादायकस्योत्तरकालभाविनः फलस्य तथाविधप्रेरणात् ॥ ५ ॥ मूलम् - यथैव लोके लवणोदवारि, क्षारं सदा दुःसहकर्मयोगात् ।
अनन्तकालेऽपि भवेन्न पेयं, यन्नैव वर्णान्तरमाश्रयेत ॥ ६ ॥
टीका - अत्र दृष्टान्तमाह-यथैवेत्यादिना ' यथैवेति ' - तथाहीत्यर्थः, 'लोके ' - संसारे, ' दुःसहकर्मयोगात् ' - दुःखेन सह्यानां कर्मणां संयोगेन, ' लवणोदवारि ' - लवणसमुद्रस्य जलं, ' सदा -सर्वदा, ' क्षारं ' - क्षारत्वाविशिष्टम् भवति, तत्,
१. उत्तरकालताढप्रेरणात् ।