________________
SSSSSSCRI
ये तेषु केचिद्व्यवहारराशि-मायान्ति ते स्युः क्रमतो विशिष्टाः । राशेः पुनर्ये व्यवहारनाम्नो, निर्गत्य जीवा अभियान्ति तेऽपि ॥३॥ निगोदजीवत्वमथो लभन्ते, कथं व्यवस्था कुत आविरस्ति ।
निशम्यतां सम्यगयं विचारो, विचारसञ्चारितचित्तवृत्ते ! ॥४॥ टीका-निगोदजीवानधिकृत्य प्रश्नयति-प्रश्न इत्यादिना ' हे पूज्याः !'-हे माननीया, ' तद्वत् '-पूर्वानुसारेण, 'निगोदजीवानधिकृत्य'-निगोदजीवानुद्दिश्य, 'पुन:'-पुनरपि, 'एषः'-वक्ष्यमाणः प्रश्नः, पृच्छयते '-पृच्छां नीयते, 'ये'-निगोदजीवाः सन्ति, 'च' शब्दश्चरणपूत्तौं, 'केन' 'अशुभकर्मणा'-निकृष्टकर्मणा, 'निगोद एव' 'तिष्ठन्ति'-स्थितिं कुर्वन्ति, ' यत्'-यस्मात् कारणात् , 'ही' ति निश्चये, 'ते'-निगोदजीवा:, 'जन्मात्ययम्'-जन्मनो नाशम् , मरणमितिभावा, 'आचरन्तः '-कुर्वन्तः, 'कर्माणि कत्तुं'-कार्याणि विधातुम् , ' वेलां'-समयं, 'न लभन्ति'न प्राप्नुवन्ति, परस्मैपदं चिन्त्यम् , ' तत् '-तर्हि, 'दीनाः '-दुःखिताः, 'ते'-निगोदजीवाः, 'केन'-कर्मणा, 'परेतदुःखानन्तव्यथां'-परेता नारकास्तेषां यानि दुःखानि तेभ्योऽप्यनंतां व्यथां-पीडां, 'अनुभवन्ति '-भोगे समानयन्ति, 'तेषु'-निगोदजीवेषु, 'ये'-केचित् , ' केऽपि-निगोदजीवाः, 'व्यवहारराशिमायांति'-अव्यवहारराशितो निष्क्रम्य व्यवहारराशिं प्राप्नुवन्ति, 'ते'-निगोदजीवा:, 'क्रमतः '-क्रमेण, 'विशिष्टाः स्युः '-उत्कृष्टा भवन्ति, 'अथे 'ति आनंतर्ये, 'पुनः ये जीवाः' ' व्यवहारनाम्नो राशेः '-व्यवहारनामकादाशेः, निर्गत्य'-निष्क्रम्य, ' अभियान्ति '