________________
m
antan
कारणात् , ' जनैः'-नरैः, ' इदृशं नाम '-इत्थंभूता संज्ञा उच्चाटनेति दुर्नामेत्यर्थः, 'निगद्यते '-कथ्यते ॥१०॥ - मूलम्-तत्स्था हि वर्णा यदि केपि शस्त-मन्त्रस्थितास्ते गदिताः प्रशस्ताः।
सन्मन्त्रगा येऽपि च मन्त्रवर्णा-स्ते स्युस्तथोचाटनदोषदुष्टाः ॥ ११ ॥ टीका-अतो विपर्यासमाह-तत्स्था इत्यादिना 'ही' ति निश्चये, 'यदि '-चेत्, ये 'केऽपि '-केचित् , 'शस्तमन्त्रस्थिता:'-प्रशंसनीयमंत्रसंबंधिनः, 'वर्णाः' अक्षराणि, 'तत्स्थाः '-मांत्रिकहृदयस्थिता भवन्ति, तर्हि 'ते'-वर्णा, 'प्रशस्ताः'-श्रेष्ठार, 'गदिताः'-कथिताः, 'तथे 'ति समुच्चये, येऽपि च ' सन्मंत्रगाः'-श्रेष्ठमंत्रसंबंधिना, ' मंत्रवर्णाः'मंत्राक्षराणि, भवन्ति, 'ते'-वर्णाः, 'उच्चाटनमंत्रगता'-उच्चाटनदोषदुष्टाः, उच्चाटनरूपदोषेण युक्ताः, 'स्युः'-भवन्ति ॥११॥
मूलम्-क्षेत्रं निगोदस्य यथा तथेदं, दुर्मान्त्रिकस्याशुभवर्णभृद् हृदू ।
दमन्त्रवर्णाभनिगोददेहिनः, सन्मन्त्रवर्णव्यवहारिजन्मिनः ॥ १२॥ टीका-दृष्टान्तदा तिकघटनामाह-क्षेत्रमित्यादिना 'यथा'-यत्प्रकारकं, 'निगोदस्य क्षेत्रमस्ति' 'तथा'तत्प्रकारकम् , 'इदं '-पूर्वोक्तम् , 'दुर्मात्रिकस्य'-दुष्टमंत्रज्ञस्य, 'अशुभवर्णभृत् '-निकृष्टाक्षरपूर्ण, 'हृद्'-हृदयमस्ति, | 'दुन्त्रिवर्णाभनिगोददेहिनः '-दुष्टमंत्रवर्णतुल्या निगोदजीवाः सन्ति, तथा 'सन्मन्त्रवर्णव्यवहारिजन्मिनः'-श्रेष्ठमंत्राक्षरतुल्या व्यवहारराशिगतजीवाः सन्ति ॥ १२ ॥
१. शुभमन्त्रवर्णवत् व्यवहारराशिगतजीवाः ।
sostank