________________
-
.
-
--
'ब्रह्मणि ब्रह्म लीयते'-ब्रमविषये ब्रह्म लयं याति, अथ'-अनन्तरम्, 'तथे 'ति समुच्चये, 'ज्योतिः सम्मिलति'- l ज्योतिर्विपये ज्योतिः सम्मेलं प्राप्नोति, ' इति '-एपा, 'गी.'-वाणी, कथनमित्यर्थों भवति, अत्र पुष्टिमाह-अयमित्या- | दिना ' मुनिभिः'-महात्मभिा, 'अयं'-पूर्वोक्तः, 'प्रवादः'-कथनं, 'समाश्रितः '-अवलम्बिता, आहत इति-|| भावः, कथंभूतैर्मुनिभिः ? — पुरातनैः 'प्राचीनः, पुनश्च कथंभूतैः ? ' ब्रह्मयथार्थवेदिभिः 'ब्रह्मशब्द-सत्यार्थज्ञाताभिः ॥५-६-७॥
ब्रह्मसिद्धयोरसंकीर्णतां श्लोकचतुष्टयेनाहमूलम्-एवं सति प्राज्ञवराः कथं न तत् , क्षेत्रस्य सार्यमथो भवेत्तथा।
परस्परालिङ्गितब्रह्मणोऽप्यहो, संकीर्णता केन भवेन्न तत्र ॥८॥ टीका-अत्र वादी पुनः शङ्कते-एवं सतीत्यादि अथो'-प्रश्नयोतने, 'हे प्राज्ञवराः !'-हे विद्वच्छ्रेष्ठाः, ' एवं | सति '-उक्तविषयाभ्युपगमे सति, 'तत् '-प्रसिद्धम् , ' क्षेत्रस्य ' ' सांकर्य '-संकीर्णत्वं, 'कथं '-कुतः ? न भवेत् 'न जायते, 'तथे 'ति समुच्चये, 'अहो!'-इति विस्मये, 'तत्र'-तस्मिन् स्थले, 'परस्परालिङ्गितब्रमणोऽपि '-मिथा कृतालिङ्गनस्य ज्ञानस्यापि ज्योतिपोऽपि वा, 'संकीर्णता'-संकीर्णत्वम् , सांकर्यमिति यावत् , 'केन'-कारणेन, 'ना | भवेत् 'न भवति ॥८॥
१. मिथो मिलितशानस्य ज्योतिषो वा।
SSAASSAASSAIG
१०