________________
९ ॥
मूलम् - यथैव कस्याऽपि मनीषिणो हृदि, प्रभूतशास्त्राक्षरसङ्ग्रहे सति । साङ्कर्यमस्योरसि नैव जायते, न चाक्षराणां परिपिण्डता भवेत् ॥ एवं चिदाश्लिष्टदिवः समन्ततो, न ब्रह्मभिर्ब्रह्मपरम्पराश्रितैः । सङ्कीर्णताऽथो नभसा न ब्रह्मणा हि प्रवीणा इति संविदा जगुः ॥ १० ॥
,
C
टीका -- अस्योत्तरमाह - यथैवेत्यादिना ' यथैव ' - येन प्रकारेणैव, ' कस्यापि ' - कस्यचित्, ' मनीषिण: ' - बुद्धिमतः, 'हृदि ' - हृदये, 'प्रभूतशास्त्राक्षरसंग्रहे सति' - बहूनां शास्त्राणाम् वर्णानाम् संग्रहे जाते सत्यपि, 'अस्य ' - मनीषिणः, 'उरसि 'वक्षःस्थले, ' सांकर्य' - संकीर्णत्वम्, 'नैव जायते ' - न भवति, 'च' - पुनः, ' अक्षराणां ' - वर्णानाम्, 'परिपिण्डता 'पिंडी भावोऽपि, ' न भवेत् ' - न भवति, दृष्टान्तं दान्ते घटयति- एवमित्यादिना एवम् ' -उक्तप्रकारेण, 'समन्ततः 'परितः, ' ब्रह्मपरंपराश्रितैः ' - ज्ञानपरं पराधीनै ज्योतिः परं पराधीनैर्वा, ' ब्रह्मभिः ' - ज्ञानैज्योतिभिर्वा, ' चिदाश्लिष्टदिव: ' - ज्ञानसंश्लिष्टक्षेत्रस्य, ज्योतिः संश्लिष्टक्षेत्रस्य वा, ' संकीर्णता '- संकीर्णत्वम्, न भवति, ' अथे 'ति समुच्चये, 'नभसा' - आकाशेन, क्षेत्रस्थाकाशेनेतिभावः, ' ब्रह्मणां ' - ज्ञानानां ज्योतिषां वा, न संकीर्णता भवति, ' इह ' - अस्मिन्संसारे, ' प्रवीणाः 'चतुराः, 'संविदा ' - ज्ञानेन, ' इति ' - एतत्पूर्वोक्तम्, ' जगुः ' - कथयामासुः ॥ ९-१० ॥
मूलम् - इत्थं हि सिद्धैः परिपूरितं शिव-क्षेत्रं न सङ्कीर्णमहो ! भवेत्कदा |
सिद्धास्तथा सिद्धपरम्पराश्रिताः, साङ्कर्यबाधारहिता जयन्ति भोः ॥ ११ ॥