________________
तावद् द्वितीयस्य तृतीयकस्य, सिद्धस्य ब्रह्माश्रयते तदेव । एवं ह्यनन्तामितसिद्धनाम्नां, ब्रह्माश्रयेत् क्षेत्रमहो तदाश्रितम् ॥६॥ तेनेति गीब्रमणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि सम्मिलत्यथ
अयं प्रवादो मुनिभिः पुरातनैः, समाश्रितो ब्रह्मयथार्थवेदिभिः ॥७॥ टीका-अस्योत्तरमाह-निशम्यतामित्यादिना निशम्यतां'-श्रूयताम् त्वया, ' विज्ञाः'-तत्वविदः, 'इदं '-प्रसिद्ध, 'ज्ञानं'-ब्रह्म इति, 'वदन्ति'-ब्रह्मनाम्ना कथयन्ति, 'वा'-अथवा, 'अथेति अनंतरे, 'इदं'-ज्ञानम्, 'ज्योतिरिति 'ज्योतिर्नाम्ना वदंति । विज्ञा ब्रह्मशब्दवाच्यं ज्ञानम् ज्योतिर्वा कथयन्तीतिभावः, तेन किमुक्तं भवतीत्याह-तदेकेत्यादिना 'ही'ति निश्चये, 'तत्-'तस्मात् कारणात् , 'एकसिद्धस्य'-एकस्य सिद्धस्य, 'ब्रह्म-ज्ञानं ज्योतिर्वा कर्तृपदं, 'सर्वदिशासु'सकलासु दिशासु, ' यावत् '-यत् परिमाणकं, 'अनन्तम् '-अन्तरहितम्, 'क्षेत्रं ''श्रयेत् '-आश्रयति, 'द्वितीयस्य'अपरस्य, तथा 'तृतीयकस्य'-तृतीयस्य, 'सिद्धस्य' 'ब्रह्म'-ज्ञानं ज्योतिर्वा, 'तावत् '-परिमाणकं, 'तदेव' सर्वासु दिशासु, 'अनंतं क्षेत्रमेव ' 'आश्रयते'-आश्रितं करोति, 'एवम् '-अनया रीत्या, 'ही'ति निश्चये, ' अहो' इति विस्मये, 'अनन्तामितसिद्धनाम्नां '-अनन्ता अत एवामिता ये सिद्धा इति नामानस्तेषां, 'ब्रह्म'-ज्ञानं ज्योतिर्वा, 'तदाश्रितम् 'सिद्धज्ञानाश्रितम् , सिद्धज्योतिराश्रितं वा, 'क्षेत्रम् ' 'आश्रयेत् '-आश्रयति, फलितमाह-तेनेत्यादिना 'तेन'-कारणेन,
१. शानम् । २. अनन्ता अत एवामिता ये सिद्धा इतिनामानः। ३. ज्ञानं ज्योतिर्वा । ४. सिद्धज्ञानाश्रितम् । ५. ब्रह्मशब्दार्यवेदिभिः।
NSSॐॐॐॐॐॐRSS
FAS