________________
कर्मण इत्यवगन्तव्यम् ' एतस्मात् ', समवायपञ्चकात् ' - पश्चानां समवायात्, 'सृष्टिक्षयौ स्तः ' - सर्जनसंहारौ भवतः ॥ ३ ॥ ब्रह्मणो ब्रह्मणि लीनत्वं, ज्योतिषि ज्योतिषो मेलनं श्लोकचतुष्टयेनाह
मूलम् - मुनीश्वराः ! ब्रह्मणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि संविशेदिति । कथं प्रवादो घटते महात्मना - मयं विना ब्रह्म पुराणवेदिनाम् ॥ ४ ॥
टीका - ब्रह्मणोऽभावे दूषणं भवतीत्याशंका माह-मुनीश्वरा इत्यादिना ' हे मुनीश्वरा ! ' - हे मुनिराजाः !, 'ब्रह्मणि ब्रह्म लीयते ' - ब्रह्मविषये ब्रह्म लयं याति 'तथे 'ति समुच्चये, 'ज्योतिषि ज्योतिः संविशेत् ' -ज्योतिर्विषये ज्योतिः संविष्टं भवति, ' इत्ययम् ' - इत्येषः, ' महात्मनां ' - महोदयानां, 'प्रवादः ' - कथनम्, ' ब्रह्म विना ' - ब्रह्मांतरेण, ब्रह्मण्यसतीतिभावः, ' कथं ' - केन प्रकारेण, ' घटते ' - सिद्ध्यति, कथंभूतानाम् महात्मनाम् ? ' पुराणवेदिनाम् ' - पुरातनतच्चज्ञातॄणाम् ॥ ४ ॥ मूलम् - निशम्यतां ज्ञानमिदं वदन्ति, ब्रह्मेति वा ज्योतिरथेति विज्ञाः । तदेकसिद्धस्य हि ब्रह्म यावत्, क्षेत्रं श्रयेत्सर्वदिशास्वनन्तम् ॥ ५॥
१. पुरातनतत्त्वविदाम् । २. ब्रह्मशब्देन ज्ञानमुक्तमनेकार्थे, तदेव ज्ञानं प्रकाशकत्वात् ज्योतिरिव ज्योतिरिति ज्योतिरपि लोका व्यवहरन्ति तत एकस्यापि परमज्ञानस्य ब्रह्म ज्योतिश्चेति नामद्वयं लोकाः श्रितास्ततो लोकाशयेनोच्यते ब्रह्मेति ज्ञानं ज्योतिर्वेति ।