________________
कालादि पञ्चभ्यो जगदुत्पत्तिं तत्प्रलयश्च श्लोकद्वयेनाह
मूलम् - स्वामिन् ! यदीयं न हि सृष्टिरुत्थिता, सकाशतो ब्रह्मण इत्यवाचि चेत् । इयं कुतः स्यादपयाति वा कुतो, निगद्यतामद्य रहस्यमेतकद् ॥ २ ॥
टीका - ब्रह्मस्वरूपमवगत्य जगत्सृष्टिसंहारविषये प्रश्नयति स्वामिन्नित्यादिना ' हे स्वामिन्! ' - हे प्रभो !, ' यदीयं - पूर्वोक्ता सृष्टि:- जगद्रचना, 'ब्रह्मणः सकाशतः ' ब्रह्मणोऽतिकात्, 'न घुत्थिता ' - नोत्पन्ना, ' इति - एतत् ' चेत् ' - इति चरणपूर्ती, 'अवाचि ' -उक्तं भवता, तर्हि इयं सृष्टिः कुतः स्यात् । कस्माद् भवेत् १ ' वा ' - अथवा, 'कुतोऽपयाति ' - कस्मात् संहारं प्राप्नोति, अद्य ' - इदानीम्, 'एतकत् ' - एतत्, 'रहस्यम् - गूढबूतं, 'निगद्यताम् - कथ्यताम् भवता ॥ २ ॥ मूलम् -- त्रिकालविज्ञा इति योगिनो ये, निरागिणस्तेऽभिदधुर्विशिष्टाः
"
।
कालात्स्वभावान्नियतेश्च वीर्यतः, सृष्टिक्षयौ स्तः समवायपञ्चकात् ॥ ३ ॥
टीका - उक्तप्रश्नस्योत्तरमाह - त्रिकालविज्ञा इत्यादिना ' ये विशिष्टाः - महान्तो जनाः सन्ति, कथंभूतो विशिष्टाः १ ' त्रिकालविज्ञा: ' - भूतभविष्यद्वर्त्तमानकालस्थपदार्थज्ञातारः, पुनः कथंभूताः १ 'योगिनः ' - योगाभ्यासकर्तारः, पुनः कथंभूताः ? ' निरागिणो ' - रागरहिताः, निशब्दोऽत्र निःशब्दार्थः, ' ते इति ' - एतद्वक्ष्यमाणम्, 'अभिदधुः - कथयामासुः, यत् ' कालात् ' -- कालसकाशात्, 'स्वभावात् ' - स्वभावसकाशात्, 'नियतेः '- नियतिसकाशात्, 'वीर्यतः ' - उद्यमाच
१. काल: स्वभावनियती, पूर्वकृतं पुरुषकारणं पञ्च । समवाये सम्यक्त्व - मेकत्वे भवति मिथ्यात्वम् ॥ इति जैनतत्त्वम् ।