________________
अथ नवमोऽधिकारः
ब्रह्मणः स्वरूपम् —
मूलम् - किं ब्रह्म सिद्धापरनामकीर्त्तितं, ध्येयं मुनीनामपि शुद्धचेतसाम् भवार्णवे यानवदेव योगिनो, जानन्ति यन्मुक्तिगृहं यियासवः ॥ १ ॥
A
किं
टीका - इदानीं ब्रह्मविषये प्रश्नयति - किं ब्रह्मेत्यादिना हे स्वामिन् । ब्रह्म ' किं ' - कीदृग्रूपमस्ति १ उत्तरमाह - सिद्धापरेत्यादिना यत् ' सिद्धापरनामकीर्त्तितं ' - सिद्धेत्यपरनाम्ना कथितम् ' मुनीनामपि ध्येयम् ' - ऋपीणामपि ध्यातुम् योग्यम्, पुनरन्येषामित्यपि शब्दभावः, कथंभूतानां मुनीनां १' शुद्धचेतसाम् ' - निर्मलमानसानाम्, यच्च' भवार्णवे ' - संसार सागरे, ' योगिनः ' - योगाभ्यास कर्त्तारः, ' यानवदेव ' - प्रवहणतुल्यमेव, ' जानन्ति ' - बुध्यन्ते, कथंभूता योगिनः १ 'मुक्तिगृहं' - मोक्षपदं, ' यियासवः - गन्तुमिच्छवः, तत् ब्रह्मास्ति ॥ १ ॥
१. अथ जिशासुः पृच्छति ब्रह्मभूयमित्यत्र किं नाम ब्रह्मेत्युक्ते तजिज्ञासोराशयेन वदति सिद्धान्ती । २. यत् सिद्धापरनाम ब्रह्म भवार्णवे संसारसागरे योगिनः मुक्तिरूपं गृहं प्रति प्राप्तुकामाः प्रवहणवत् आमनन्ति । गृहप्रवेशे तु कर्त्तव्ये यथा प्रवहणं परित्यज्यते तथा मुक्तिगृहगमनावसरे सिद्धध्यानमपि संत्यज्यात्मध्यानं च समभावलक्षणमाश्रित्य मुक्तिगृहं प्रविशन्तीतिभावः ।