________________
-
।
..
ni-
-
-
-
-
-
-
टीका-उदाहरणविस्पष्टेन फलितमाह-यथेत्यादिना ' यथा '-येन प्रकारेण, 'अत्र'-अस्मिन् संसारे, ' स्थाने स्थितस्यापि '-स्वस्थले उपविष्टस्याऽपि, 'शस्त्रादिकवस्तुनेतुः '-शस्त्रादिपदार्थस्वामिनः, 'ही'ति निश्चये, 'प्रयासःपरिश्रमः, न भवति ' तथा '-तेनैव प्रकारेण, 'ईश्वरस्याऽपि '-परमेश्वरस्याऽपि, 'काचित् '-कापि, ‘क्रिया'-कृत्यं, | न भवेत् ' न भवति, 'यत इति ' अस्मात्कारणादित्यर्थः, 'निष्क्रियतापि'-निष्क्रियत्वमपि, क्रियारहितत्वमितिभावः, ईश्वरस्यापि, 'सिद्धाः'-सिद्धिमुपगताः ॥ ६७॥ मूलम्-शरोऽपि चैवं सति शस्त्रभर्तृ-महोपकारं किल मन्यतेऽसौ।
अधीशभक्तोऽपि तदीयनाम-ध्यानोत्थसौख्यस्तकमेव वक्ति ॥ ६८।। टीका-उक्तविषयमेव विस्पष्टयति-शूरोऽपीत्यादिना ' एवं च सती'ति-उक्तवृते सतीत्यर्थः, 'असौ'-पूर्वोक्तः, 4 'शूरोऽपि '-वीरोऽपि, 'किले 'ति निश्चये, 'शस्त्रभः'-शसस्वामिनः, 'महोपकार'-महतीमुपति, 'मन्यते-जानाति,
दार्शन्ते योजनामाह-अधीशेत्यादिना एवम् ' तदीयनामध्यानोत्थसौख्यः'-ईश्वरनामध्यानेन उत्पन्नं सुखम् यस्मै, 'सः'एवंभूतः, 'अधीशभक्तोऽपि '-ईश्वरभजनकर्ताऽपि, 'तकमेव '-उत्पन्नसुखकारकमधीशमेवेत्यर्थः, 'वक्ति '-कथयति, यथा शूरः कार्यसिद्धौ शसस्वामिमहोपकारं मन्यते तथेश्वरनामध्यानोत्पन्नसुखं ईश्वरभक्तोऽपि तत्सुखकर्तारमीश्वरमेन वक्तीत्यर्थः ॥ ६८॥
m
0
-
-
.
.
5
-
.
१. शस्त्रनायकस्य । २. तत्सौख्यकर तमधीशमेव वक्ति तस्य सेवकत्वात ।