________________
टीका - आस्तामयमित्यादि 'अयम्' - प्रसिद्ध', 'श्रीपरमेष्ठिनामा' - श्रीपरमेष्ठिनामक, ' आस्ताम् ' - तिष्ठतु, 'तद्व्यानवान्' - श्रीपरमेष्ठिध्यानकर्त्ता, 'एषः ' - प्रसिद्ध:, 'जनः ' - नरः, 'आत्मनि' - स्वस्मिन्, 'सुखस्य' - सौख्यस्य, 'संविधानात् ' करणात्, 'कर्त्ता' - कारक:, ' अभिनिष्यात् ' - भवेत्, 'च' - पुनः, 'आत्मतमोपहारात् ' - स्वांधकारनाशात्, 'संहारकः '- संहारकर्त्ता स्यात्, श्रीपरमेष्ठिध्यानकर्त्ता जन आत्मनि सुखकरणात् कर्त्ता आत्मांधकारनाशाच्च संहारको भवितुमर्हतीतिभावः ॥ ६५ ॥
मूलम् - यथैव लोके किल कोऽपि शूरः, स्वाम्यात्तशस्त्रैरपि सर्वशत्रून् ।
सञ्जित्य तत्संहृतिकृन्निजाङ्गे, सुखस्य कृत्यापि भवेत्स कर्त्ता ॥ ६६ ॥
टीका - अत्रैव लौकिकोदाहरणमाह-यथैवेत्यादिना ' यथैवे 'ति तथाहीत्यर्थः, 'किले 'ति निश्चये, 'लोके ' - संसारे, कोऽपि ' - कश्चित्, ' शूरः ' - वीरः, ' स्वाम्यात्तशस्त्रैरपि ' - स्वामिसकाशात् गृहीतैः शस्त्रैरपि, ' सर्वशत्रून् सञ्जित्य - सकलशत्रूणां पराजयं कृत्वा, तत् ' संहृतिकृत् ' - शत्रु संहृतिकर्त्ता भवति, तथा 'निजागे ' - स्वशरीरे, 'सुखस्य - सौख्यस्य, ' कृत्यापि ' - कारणेनापि, कर्त्ता ' -कारको, ' भवेति ' - भवत्, शत्रुसंहार करणात् स संहर्त्ताऽऽत्मनि सुखोपादनाच्च स कर्त्तोच्यत इतिभावः ॥ ६६ ॥
मूलम् - यथाऽत्र शस्त्रादिकवस्तुनेतुः, स्थाने स्थितस्यापि न हि प्रयासः ।
१. स्वामिनः ।
तथेश्वरस्यापि भवेन्न काचित् क्रिया यतो निष्क्रियतापि सिद्धा ॥ ६७ ॥